________________
योगबिन्दु सूत्र : ९७-९८-९९-१००
१६९ मात्रमित्यपिशब्दार्थ: या परैः'कापिलादिभिः सा आसनान्यगता चरमावर्तासन्नान्यतरपरावर्तवर्तिनीति मन्येऽहं, न पुनश्चरमावर्तगतेति, कुत इत्याह 'भवाभिष्वङ्गभावतः'- अत्यन्तदृढसांसारिक फलबन्धात् ९७॥ एनामेवाधिकृत्याह
अपुनर्बन्धकादीनां, भवाब्धौ चलितात्मनाम् ।
नासौ तथाविधा युक्ता, वक्ष्यामो युक्तिमत्र तु ॥१८॥ अपुनर्बन्धकादीनां-अपुनर्बन्धकसम्यग्दृष्ट्यादीनाम् । भवाब्धौ-संसारजलधौ चलितात्मनां-विनिवर्तमानात्मनाम् । किमित्याह नासौ-पूर्वसेवा तथाविधा अपरोपन्यस्तपूर्वसेवासदृशी युक्ता । कुतः ? यतः 'वक्ष्यामो'(१५२ श्लोके)भणिष्यामो युक्तिं-हेतुं अत्र तु-अनयोः पुन: पूर्वसेवयोर्विशेषगतामिति IR८॥ युक्तिमेवाह
मुक्तिमार्गपरं युक्तया, युज्यते विमलं मनः ।
सद्बुद्ध्यासनभावेन, यदमीषां महात्मनाम् ॥ ९९॥ मुक्तिमार्गपरं-निर्वाणपथपरायणम् युक्तया युज्यते-घटते । किमित्याह विमलं अतितीव्रमिथ्यात्वादिमलविकलं मन:-अन्त:करणं सद्बुद्ध्यासन्नभावेनसम्यक्त्वांद्युत्तरोत्तरशुद्धगुणस्थानसमीपभावेन यत्-यस्मात् अमीषां-अपुनर्बन्धकादीनां महात्मनां-प्रशस्तस्वभावानां, न पुनरावर्तान्तरवर्तिनां, यमनियमानुष्ठानेऽप्यतिदृढभवाभिष्वङ्गभावादिति ॥ ९९॥ अथैतदेव तीर्थान्तरीयमतेन संवादयन्नाह
तथा चान्यैरपि ह्येतद्योगमार्गकृतश्रमैः ।
सङ्गीतमुक्तिभेदेन, यद्गौपेन्द्रमिदं वचः ॥ १०॥ 'तथा च' इति पूर्वोक्तार्थभावनार्थ: 'अन्यैरपि हि' किं पुनरस्माभिरित्यपिशब्दार्थः, एतत्-चरमावर्त एव विमलमनोलक्षणं वस्तु योगमार्गकृतश्रमैः-योगमार्गविहिताभ्यासैः सङ्गीतं उक्तम् उक्तिभेदेन शब्दविशेषलक्षणेन । कुतः ? यद्-यस्मात् 'गौपेन्द्रं'-भगवद्गोपेन्द्रोक्तम् इदमनन्तरमेव वक्ष्यमाणं
१. फलप्रतिबन्धात्-A.;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org