________________
१६८
योगबिन्दु सूत्र : ९३-९४-९५-९६-९७ णुव्रतमहाव्रतादीनां तेषु कदाचिदप्यभावात् ॥१३॥ तथा
तैजसानां च जीवानां, भव्यानामपि नो तदा ।
यथा चारित्रमित्येवं, नान्यदा योगसम्भवः ॥१४॥ तैजसानां-चकाराद्वायूनां च मनुष्यत्वमात्रत्वस्याप्ययोग्यानां 'जीवानाम् भव्यानामपि' किं पुनरितरेषाम् नो-नैव च तदा-तैजसावस्थाकाले 'यथा' इति दृष्टान्तार्थः 'चारित्रं' देशतः सर्वतो वा । इत्येवं दार्टान्तिकार्थः नान्यदाऽन्यावर्तेषु 'योगसम्भव' इति ॥१४॥ तथा
तृणादीनां च भावानां, योग्यानामपि नो यथा ।
तदा घृतादिभावः स्यात्, तद्वद्योगोऽपि नान्यदा ॥१५॥ तृणादीनां-तृणपत्रपुष्पफलखलादीनां गवादिचारणार्हाणाम्, चकारो दृष्टान्तान्तरसमुच्चये, भावानां-पदार्थानाम् योग्यानामपि-घृतादि प्रतीत्याऽनन्तरमेवोपपनहेतुरूपाणां किं पुनरितरेषामित्यपिशब्दार्थ: 'नो यथा तदा' तृणादिकाले घृतादिभावो-घृतदुग्धदध्यादिभावः, स्याद् -भवेत् । तद्वत् तथा योगोऽपि अध्यात्मादिकं 'तृणादिकाले 'इत्यपिशब्दार्थ: नान्यदेति ॥१५॥
नवनीतादिकल्पस्तत्तद्भावेऽत्र निबन्धनम् ।
पुद्गलानां परावर्तश्चरमो न्यायसङ्गतम् ॥१६॥ नवनीतं-म्रक्षणम् आदिशब्दाद्दधिदुग्धादिग्रह: ततो घृतादिपरिणामे नवनीतादिकल्पः तत्-तस्मात् तद्भावेऽध्यात्मादिपरिणामे अत्र-योगविचारे निबन्धनंहेतुः 'पुद्गलानां परावर्त' उक्तरूप: चरमोऽपश्चिमः, न्यायसंगतं-युक्तमेतत् ॥१६॥
अत एवेह निर्दिष्टा, पूर्वसेवापि या परैः ।
साऽऽसत्राऽन्यगता मन्ये, भवाभिष्वभावतः ॥१७॥ 'अत एव'-चरमावर्तेऽध्यात्मभावादेव इह-योगप्रज्ञापनायां निर्दिष्टा निरूपिता । पूर्वसेवापि- 'योगाद्यर्थं यमनियमाराधनरूपा किं पुनर्लोकपंक्ति
१. 'च'-A.B.C.: प्रतिषु नास्ति; २. अध्यात्मादि-A.; अध्यात्मादिः-C; ३. युक्तियुक्तमेतत्A.B.C.; ४. भोगार्थ-A.B.C:;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org