________________
योगबिन्दु सूत्र : ९०-९१-९२-९३
१६७ पापाय-पापकर्मनिमित्तं अल्पधियां-तुच्छबुद्धीनां पुंसां, अलं-अत्यर्थमिति ॥१०॥ अत्रैव कश्चिद्विशेषमाह
लोकपंक्तिमतः प्राहुरनाभोगवतो वरम् ।
धर्मक्रियां न महतो, हीनताऽत्र यतस्तथा ॥११॥ . लोकपंक्तिमतो-लोकचित्ताराधनप्रधानस्य प्राहुः ब्रुवते कीदृशस्येत्याह 'अनाभोगवतः' -सम्मूर्छनजप्रायस्य स्वभावत एव वैनयिकप्रकृतेः 'वरं'पूर्वोक्ताल्पबुद्धिधर्मक्रियायाः सकाशात् प्रधानं यथा भवति 'धर्मक्रियां'सदाचाररूपाम् । कुत इत्याह न नैव महतो धर्मस्य हीनता-हीनभावः अत्र अनाभोगवतो धर्मक्रियायां यतः- यस्मात् कारणात् तथा-तेन प्रकारेण, यथा मलिनात्मारब्धधर्मक्रियायाम् । इदमुक्तं भवति-अनाभोगवतो लोकाराधनप्रधानस्य कीर्त्यादिस्पृहामलिनात्मधर्मक्रियायाः सकाशात् मनाक् सुन्दरैव धर्मक्रिया, महतो धर्मस्य तत्र हीनतयानवलोकनादिति ॥११॥
तत्त्वेन तु पुन काप्यत्र धर्मक्रिया मता ।
तत्प्रवृत्त्यादिवैगुण्याल्लोभक्रोधक्रिया यथा ॥१२॥ तत्त्वेन तु पुन:-तत्त्ववृत्त्या पुन: न नैव एकापि' किं पुनढे इत्यपिशब्दार्थः, अत्राऽनयोर्मलिनान्तरात्मानाभोगवत्पुरुषकृतयोधर्मक्रिययोर्मध्ये धर्मक्रिया मता' संमता । कुत इत्याह तत्प्रवृत्त्यादिवैगुण्यात्-तत्र धर्मे प्रवृत्तिविघ्नजयसिद्धिविनियोगानां वैगुण्यादभावात् । दृष्टान्तमाह 'लोभक्रोधक्रिया'-प्रतीतरूपा यथा-येन प्रकारेणेति १२॥ अथ निगमयन्नाह
तस्मादचरमावर्तेष्वध्यात्मं नैव युज्यते ।
कायस्थितितरोर्यद्वत्तजन्मस्वामरं सुखम् ॥१३॥ 'तत:'-तस्माल्लोकपंक्तिमात्रफलाया धर्मक्रियाया अधर्मत्वाद्धेतोः अचरमावर्तेषु-उक्तरूपेषु अध्यात्मं नैव युज्यते । अत्र दृष्टान्तमाह 'कायस्थितितरो:' काये वनस्पतिकाय एवानन्तोत्सर्पिण्यवसपिर्णीप्रमाणा स्थितिरवस्थानं यस्य स तथा तस्य तरोर्वनस्पतेः यद्वद्-यथा तजन्मसुवनस्पति जन्मस्वनन्तानन्तरूपेषु आमरं अमरसम्बन्धि सुखं, तत्सुखकारणानाम
१३ Jain Education International
For Personal & Private Use Only
www.jainelibrary.org