________________
१६६
योगबिन्दु सूत्र : ८७-८८-८९-९० भवेत् कीदृश इत्याह ‘निष्फलारम्भसङ्गतः'-सर्वत्राऽतत्त्वाभिनिवेशाद्वन्ध्यक्रियासम्पन्न इति ॥८७॥ सम्प्रति लोकपंक्तिस्वरूपं व्याचष्टे
लोकाराधनहेतोर्या, मलिनेनान्तरात्मना । क्रियते सत्क्रिया साऽत्र, लोकपंक्तिरुदाहृता ॥८॥ लोकाराधनहेतोः लोकचित्तावर्जननिमित्तं या 'मलिनेन'-कीर्तिस्पृहादिमालिन्यवता अन्तरात्मना-चित्तरूपेण क्रियते-विधीयते सत्क्रियाशिष्टसमाचार'रूपा, सा अत्र-योगनिरूपणायाम् लोकपंक्तिः'-प्रागुद्दिष्टा-'उदाहृता' योगशास्त्रज्ञैः ॥८॥ अथैतां दूषयन्नाह
भवाभिनन्दिनो लोकपंक्तया धर्मक्रियामपि । - महतो हीनदृष्ट्योच्चैर्दुरन्तां तद्विदो विदुः ॥८१॥
भवाभिनन्दिनो-जीवस्य, लोकप कयोक्तरूपया 'धर्मक्रियामपि' किं पुनरितरक्रियामित्यपिशब्दार्थः, किमित्याह महत:- अधरीकृतकल्पद्रुमचिन्तामणिकामधेनोधर्मस्य, हीनदृष्ट्या,बुद्धिमतामत्यन्तमनादेयस्य कीर्त्यादिमात्रस्य हेतुभावेन नियोजनाद्धीनतयावलोकनेन 'उच्चैः' - अत्यर्थं शेषानर्थहेतुभ्यः सकाशात्, दुरन्तां-दारुणपरिणामां तद्विदः-लोकपंक्तिस्वरूपविदः विदुः जानते, इति लोकपंक्तिस्त्याज्यैवेति ॥८९॥ अथैषापि विवेकिन: सुन्दरपरिणामा स्यादित्यभिधित्सुराह
धर्मार्थं लोकपंक्तिः स्यात् कल्याणाझं महामतेः ।
तदर्थं तु पुनर्धर्मः, पापायाल्पधियामलम् ॥१०॥ धर्मार्थ-सम्यग्दर्शनादिमोक्षबीजाधाननिमित्तम्, लोकपंक्तिर्दानसम्मानोचितसम्भाषणादिभिश्चित्रैरुपायैः स्याद्-भवेत्, कल्याणाङ्ग-श्रेय:कारणं, महामते:प्रशस्तबुद्धेः अत एवोच्यते
"युक्तं जनप्रियत्वं, शुद्धं सद्धर्मसिद्धिफलदमलम् धर्मप्रशंसनादेीजाधानादिभावेन ॥१॥" इति
व्यतिरेकमाह-तदर्थं तु लोकपंक्तिनिमित्तमेव, पुनर्धर्मः सदाचाररूप: १. रुपा या सा- A.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org