________________
योगबिन्दु सूत्र : ८५-८६-८७
१६५ तीव्रपापाभिभूतत्वाज्ञानलोचनवर्जिताः ।
सद्ववितरन्त्येषु, न सत्त्वा गहनान्धवत् ॥ ८५॥ 'तीव्रपापाभिभूतत्वात् तीव्रेणातिदारुणेन पापेन मिथ्यात्वादिना अभिभूतत्वात्परतन्त्रीकृतत्वात्, अत एव ज्ञानलोचनवर्जिता-युक्तायुक्तविवेचननिपुणसंवेदननयनरहिताः किमित्याह सद्वर्त्म-सन्मार्ग अवतरन्ति-आगच्छन्ति, एषुअन्येषु परावर्तेषु न-नैव सत्त्वा:-जन्तवः, दृष्टान्तमाह गहनान्धवत्'महाकान्तारपतितजात्यन्ध इवेति ॥ ८५॥ एतदपि कुत इत्याह
भवाभिनन्दिनः प्रायस्त्रिसंज्ञा एव दुःखिताः ।
केचिद्धर्मकृतोऽपि 'स्युर्लोकपंक्तिकृतादराः ॥८६॥ जातिजरामरणाद्युपद्रवव्रातविधुरितमपि भवमभिनन्दन्ति तच्छीलाश्च ये ते तथा, प्रायो-बाहुल्येन 'त्रिसंज्ञा एव'-तिस्र आहारभयपरिग्रहरूपाः संज्ञा येषां ते तथा, मैथुनसंज्ञायाश्च कदाचित् केषाञ्चिदव्यक्तावस्थाया अपि भावात् प्रायस्त्रिसंज्ञा एवेत्येवमुक्तमिति । अत एव 'दुःखिता'- दु:खापोहकविवेकस्य स्वप्नेऽप्यभावात् सततमेव दु:खंभाजः, तथा केचित् न सर्वे 'धर्मकृतोऽपि'लौकिकलोकोत्तरप्रव्रज्यादिधर्मकारिणः किं पुनस्तदकारिण इत्यपिशब्दार्थः, स्युः-भवेयुः । कीदृशा इत्याह लोकपंक्तिकृतादरा: लोकपंक्तिर्लोकसदृशभावसम्पादनरूपा, तस्यां कृतयत्नाः, 'अन्यावर्तेषु' इति अनुवर्तत इति ॥८६॥ अथ भवाभिनन्दिस्वरूपमाह -. ..
क्षुद्रो 'लाभरतिर्दीनो, मत्सरी भयवान् शठः ।
अज्ञो भवाभिनन्दीस्यानिष्फलारम्भसङ्गतः ॥७॥ क्षुद्रः-कृपणो, 'लाभरतियश्चाशीलः, दीन:-सदैवादृष्टकल्याणः, मत्सरी-परकल्याणदुःस्थितः, भयवानित्यभीतः, शठो-मायावी अज्ञो-मूर्खः, भवाभिनन्दी-'असारोऽप्येष संसारः सारवानिव लक्ष्यते । दधिदुग्धाम्बुताम्बूलपुष्पपण्याङ्गनादिभिः ॥१॥' इत्यादिवचनैः संसाराभिनन्दनशीलः, स्याद्
१. अत्र मूले वृत्तौ च यत्र यत्र पंक्तिशब्दः तत्र तत्र-A. प्रतौ पक्तिशब्दः । २. लोभ -B.C.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org