________________
१६४
योगबिन्दु सूत्र : ८१-८२-८३-८४ . परेण, न-नैव, एतत्कुत इत्याह वभावोपयोगत:'-स्वभावे सर्वभावानां कार्येषु स्वत एव प्रवर्तमाने 'उपयोगत:'-कालादिबीजानां सहकारित्वेन व्यापारान्मृद इव घटपरिणतौ चक्रचीवरादीनामिति' ॥८१॥ एतदेव भावयति
सामग्रयाः कार्यहेतुत्वं, तदन्याभावतोऽपि हि ।
तदभावादिति ज्ञेयं, कालादीनां नियोगतः ॥४२॥ 'सामग्रया:'-समग्रसंयोगलक्षणाया: 'कार्यहेतुत्वं'-सामान्येन घटादिसाध्यनिमित्तत्वम् 'तदन्याभावतोऽपि हि'-तस्य परिणामिकारणस्य यान्यन्यानि सहकारिकारणानि तेषामभावतोऽभावात्, किं पुनः परिणामिहेतोरभाव इत्यपिहिशब्दार्थः । तदभावात्-कार्याभावात् इत्यस्मात्कारणात् ज्ञेयमवगन्तव्यम् । प्रस्तुतमपि कार्यं कालादीनां-सहकारिणां, नियोगतो व्यापारात्तत्स्वाभाव्ये सत्यपि न पुनरन्यथेति ॥८२॥ प्रस्तुतमेवार्थमाश्रित्याह
एतच्चान्यत्र महता प्रपञ्चेन निरूपितम् ।
नेह प्रतन्यतेऽत्यन्तं लेशतस्तूक्तमेव हि ॥83॥ ‘एतच्च'- एतत्पुनः सामग्र्याः कालादिकायाः कार्यहेतुत्वम् ‘अन्यत्र'शास्त्रवार्तासमुच्चयादिषु महता-बृहता, 'प्रपञ्चेन निरूपितं'-चर्चितं यतः ततो न-नैव, इह शास्त्रे, प्रतन्यते-विस्तार्यते अत्यन्तं-अतीव । लेशतस्तु-संक्षेपेण पुनः, ऊक्तमेव हि-'दर्शितमेव हि ॥८३॥ अत एवाह -
कृतमत्र प्रसङ्गेन प्रकृतं प्रस्तुमोऽधुना ।
नाध्यात्मं योगभेदत्वादावर्तेष्वपरेष्वपि ॥४४॥ कृतं-पर्याप्तम् अत्र-स्थाने प्रसङ्गेन-प्रबन्धेन कालादिसामग्रीविषयेण, प्रकृतं-प्रारब्धम् प्रस्तुम:- प्रवर्तयामः अधुना-सम्प्रति । तदेव च दर्शयति न-नैव, अध्यात्मं योगभेदत्वाद्- योगविशेषत्वात् आवर्तेषु-पुद्गलपरावर्तरूपेषु अपरेष्वपि चरमव्यतिरिक्तेषु, चरमे तावद्भवत्येवेत्यपिशब्दार्थः ॥४४॥
अत्र हेतुमाह -
१. चक्रचीवरादीनामपि-A.; २. दर्शितमेवेति-A.;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org