________________
१६३
योगबिन्दु सूत्रः ७८-७९-८०-८१ को दोष 'उच्यतां'-भण्यताम् । तदन्यवादाभाव:'- कालादिशेषकारणापलाप: 'चेत्'- यदि ब्रूषे, आचार्यः,-न-नैव, तत्-परोक्तम्, कुत इत्याह 'तदन्याऽनपोहनात् '- तस्मात्तत्स्वाभाव्याद्येऽन्ये कालादयस्तेषामनपोहनादनिराकरणात, तेषामपि कारणतत्वेनाभ्युपगमात् ॥७९ ॥ एतदेव भावयन्नाह
कालादिसचिवश्चायमिष्ट एव महात्मभिः । . सर्वत्र व्यापकत्वेन, न च युक्त्या न युज्यते ॥७९॥ 'कालादिसचिवश्च' कालादिसहायः पुनः अयं-स्वभावः 'इष्ट एव'सम्मत एव महात्मभिः सिद्धसेनमल्लवादिप्रभृतिभिरस्मत्'स्वयूथ्यैः । कथमित्याह 'सर्वत्र' कार्ये 'व्यापकत्वेन' कात्य॑वृत्त्या संमतिप्रभृतिशास्त्रेषु, न चेष्टमात्रमेवेदं किन्तु युक्तियुक्तमपीत्याह 'न च'- नैव युक्तया-उपपत्त्या 'न युज्यते' किन्तु युज्यत एव ॥७९॥ तथा हि
तथात्मपरिणामात्तु, कर्मबन्धस्ततोऽपि च ।
तथादुःखादि कालेन, तत्स्वभावादृते कथम् ॥४०॥ 'तथात्मपरिणामात्तु'-तत्प्रकारात्मपरिणतेरेव, 'कर्मबन्ध:'-कर्मोपादानं सम्पद्यते 'ततोऽपि च'-कर्मबन्धाच्च तथा दुःखादि'- तत्प्रकारसुखदुःखलक्षणं कार्यमुज्जृम्भते 'कालेन'-ग्रीष्मवर्षादिरूपेण 'तत्स्वभावादृते'-तत्स्वभावं विना 'कथं'-केन प्रकारेण, नैवेत्यर्थः । तत्स्वाभाव्ये तु सति स्वपरिणामादेवोपात्तकर्मा तथाविधकालबलेन सुखदुःखभागात्मा भवतीति ॥८० ॥ एवं तत्स्वाभाव्याधीने सति सर्वस्मिन् कार्ये- .
वृथा कालादिवादश्चेन तद्बीजस्य भावतः ।
अकिञ्चित्करमेतच्चेन्न स्वभावोपयोगतः ॥८१॥ वृथा-विफलः, कालादिवादस्तत्स्वाभाव्यविलक्षणकारणाभ्युपगमः, चेद्यदि ब्रूषे । न-नैवैतद्यदुक्तं परेण, कुत इत्याह 'तद्वीजस्य'-कालादिबीजस्य तच्छक्तिरूपस्य 'भावतः' -सत्त्वात्, तत्स्वाभाव्याधीनतायामपि कार्याणाम् अकिंचित्कर-कार्याऽकारि एतत् कार्यादि (?कालादि)बीजम् 'चेत्' यद्युच्यते
१. स्वपूज्यैः-A.;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org