________________
चा
१६२
योगबिन्दु सूत्र : ७६-७७-७८ अनन्तपुद्गलपरावर्तानाम् ‘सूक्ष्मबुद्ध्या'-निपुणाभोगेन विभाव्यता' अनुचिन्त्यतामेतत् ॥५॥ एतदेव भावयति
यादृच्छिकं न यत्कार्य, कदाचिजायते क्वचित् ।
सत्त्वपुद्गलयोगश्च, तथा कार्यमिति स्थितम् ॥७६॥ 'यादृच्छिकं'-यदृच्छानिमित्तम् न-नैव यद्यस्मात् कार्य कदाचित्कुत्रापि काले 'जायते' भवति क्वचित्क्षेत्रे, इत्थं सामान्येन. कारणपूर्वकत्वं कार्यस्य प्रसाध्य प्रस्तुते योजयत्राह-'सत्त्वपुद्गलयोगश्च तथा कार्य' इति तथा च सत्त्वपुद्गलयोगो-जीवपुदगलसम्बन्ध: कार्य, ततोऽनुमीयतेऽस्या(स्य) किञ्चित्कारणम्, यच्च तत्कारणं तन्नियमाज्जीवतत्स्वाभाव्यनियोगमन्तरेण नान्यदुपपद्यते, 'इति स्थितं' एवं प्रतिष्ठितं तत्स्वाभाव्यनियोगनिमित्तत्वं पुद्गलपरावर्तानामिति ॥७६ ॥ अथ तत्स्वाभाव्यस्यैव वैचित्र्यं साधयन्नाह
चित्रस्यास्य तथाभावे, तत्स्वाभाव्यादृते परः । न कश्चिद्धतुरेवं च, तदेव हि तथेष्यताम् ॥७७॥
चित्रस्य-कस्यचिजन्तोः कियत्संख्यारूपतया विचित्ररूपभाजः, अस्यानन्तपुद्गलपरावर्तरूपकार्यस्य तथा-देशकालनियमेन भावे सम्भवे तत्स्वाभाव्यादृते-तत्स्वाभाव्यमन्तरेण परो-विलक्षण: न-नैव कश्चिद्धेतुः, एवं चअनेन च कार्यवैचित्र्यप्रकारेण 'तदेव हि' तत्स्वाभाव्यमेव तथा विचित्रतया, इष्यताम् अङ्गीक्रियतामिति ॥७७॥ .
अत्रैव परमतमाशंक्य परिहरनाह
स्वभाववादापत्तिश्चेदत्र को दोष उच्यताम् ।
तदन्यवादाभावश्चन्न तदन्याऽनपोहनात् ॥७॥ स्वभाववादापत्तिः 'क: कण्टकानां प्रकरोति तैक्ष्ण्यं, विचित्रभावं मृगपक्षिणां च । स्वभावतः सर्वमिदं प्रवृत्तं, न कामचारोऽस्ति कुतः प्रयत्नः' ॥ [बुद्ध च/9 ॥६२॥] एवंलक्षणो यः स्वभाववादस्तस्यापत्तिः प्रसङ्गस्तत्स्वाभाव्यात्कार्योत्पत्त्यभ्युपगमे, चेद्-यदि ब्रूषे, अत्र-स्वभाववादापत्तौ
१.भावनाह-A.; २. क्याशङ्कय परिहरनाह-A.B.;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org