SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ योगबिन्दु-सूत्र : ७२-७३-७४-७५ १६१ परियट्टो सेसओ उ संसारो । ते सुक्कपक्खिया खलु, अहिगे पुण किण्हपक्खि त्ति ॥ १॥' तत्रापि 'भिन्नग्रन्थि:'-अपूर्वकरणवज्रप्रहारविदारितघनरागद्वेषमोहपरिणामः, तत्रापि 'चरित्री'-देशतः सर्वतो वा सावद्याचारनिवृत्तः 'च:' प्राग्वत् । 'तस्यैव'- नान्यस्य एतदध्यात्मं उदाहृतं-उक्तमिति ॥७२॥ अथ कथमन्यथा न भवतीत्याश्क्याह - प्रदीर्घभवसद्भावाद् मालिन्यातिशयात्तथा । अतत्त्वाभिनिवेशाच्चा, नान्येष्वन्यस्य जातुचित् ॥७३॥ प्रदीर्घभवसद्भावात्- प्रदीर्घस्यातिदाघीयसो भवस्य संसारस्य सद्भावात्संभवात् 'मालिन्यातिशयात्तथा'-भव्यत्वापरिपाकलक्षणात् 'तथा' इति हेत्वन्तरसमुच्चये अतत्त्वाभिनिवेशाद्'-विपरीतवस्तुस्वभावात्यन्ताऽऽग्रहात् 'च:' 'प्राग्वत् 'नान्येषु'-पुद्गलावर्तेषु, चरमेऽपि नान्यस्योक्तगुणविकलस्य भव्यस्यापि जातुचित्-कदाचिदपि ॥७३॥ चरमे पुदगलावर्त इत्युक्तम्, अथान्येऽपि किं ते सन्तीत्याशडूक्याह अनादिरेष संसारो, नानागतिसमाश्रयः । पुद्गलानां परावर्ता, अत्रानन्तास्तथा गताः ॥७४॥ • अनादिरविद्यमानमूलारम्भः 'एष' प्रत्यक्षतो दृश्यमान: 'संसारो'- भवः कीदृश इत्याह 'नानागतिसमाश्रयः' नरकादिचित्रपर्यायपात्रं वर्तते । ततश्च 'पुद्गलानाम्'-औदारिकादिवर्गणारूपाणां सर्वेषां, 'परावर्ता' ग्रहणमोक्षात्मका: 'अत्र' संसारे 'अनन्ता'-अनन्तवारस्वभावाः 'तथा'-तेन समयप्रसिद्धप्रकारेण 'गता'- अतीताः ॥५॥ केषामित्याह सर्वेषामेव सत्त्वानां, तत्स्वाभाव्यनियोगतः । - नान्यथा संविदेतेषां, सूक्ष्मबुद्ध्या विभाव्यताम् ॥७५॥ सर्वेषामेव 'सत्त्वानां'-'प्राणिनाम् तत्स्वाभाव्यमनन्तपुद्गलपरावर्तपरिभ्रमणस्वभावता, तस्य 'नियोगो'-व्यापारस्तस्मात्, अत्रैव व्यतिरेकमाह ननैव 'अन्यथा'- तत्स्वाभाव्यनियोगमन्तरेण 'संविद्'-अवबोधो घटते एतेषां १. समुच्चये-A.; २. प्राणिनाम् यत्-A.; Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004175
Book TitleHaribhadra Yogbharti
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2009
Total Pages346
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy