________________
१६०
योगबिन्दु - सूत्र : ६९-७०-७१-७२
एवं सति यद्विधेयं तदाह
मुक्त्वातो वादसङ्घट्टमध्यात्ममनुचिन्त्यताम् । नाविधूते तमः स्कन्धे ज्ञेये ज्ञानं प्रवर्तते ॥ ६९ ॥ मुक्त्वा प्रोज्झ्य अतोऽध्यात्मस्यैव तत्त्वप्रतिपत्त्युपायत्वाद्धेतोः वादसङ्घट्टंसभ्यसभापतिनिरुल्बणेन वादप्रतिवादरूपम् अध्यात्ममनुचिन्त्यताम् । कुतः ? यतो न-नैव, अविधूते ऽनिर्घाटिते, तमः स्कन्धे - मिथ्यात्वाभिनिवेशाद्यन्धकारप्रबन्धेऽध्यात्मानुचिन्तनदीपेन ज्ञेय- आत्मादी ज्ञानं प्रतीतिरूपं प्रवर्ततेसञ्जायत इति ॥ ६९ ॥ एतदेव भावयन्नाह -
-
सदुपायाद्यथैवाप्तिरुपेयस्य तथैव हि ।
नेतरस्मादिति प्राज्ञः सदुपायपरो भवेत् ॥७० ॥ सदुपायाद्-उपायाभासपरिहारेण सामान्येन सम्यगुपायात् 'यथैव' इति दृष्टान्तार्थः ‘आप्तिः’-उपलम्भ: उपेयस्य - साध्यस्य तथैव हि' सदुपायादेव न-नैव इतरस्माद्-असदुपायात् इति- अस्माद्धेतोः प्राज्ञो ' - युक्तायुक्तविभागज्ञः पुमान् ‘सदुपायपरः ’-सर्वत्र विमृश्य सम्यगुपायपरायणो भवेद् - जायेत अन्यथा प्राज्ञतैव न स्यात् ॥७०॥ अथ प्रस्तुतमेवाधिकृत्याह
सदुपायश्च नाध्यात्मादन्यः सन्दर्शितो बुधैः ।
दुरापं किन्त्वोऽपीह भवाब्धौ सुष्ठु देहिनाम् ॥७१॥ 'सदुपायश्च'- सम्यगुपायः पुनः 'नाध्यात्मादन्यो' विलक्षणः 'सन्दर्शितो ' निरूपितः बुधैः - पूर्वशास्त्रकारैस्तत्त्वप्रतीताविति दुरापं दुर्लभम् किन्तु-किं पुनः 'अदोऽपि ' - अध्यात्ममपि किं पुनस्तत्त्वप्रतीतिरित्यपिशब्दार्थः इह भवाब्धौभवसमुद्रे सुष्ठु - अतिशयेन देहिनां जन्तूनामिति ॥ ७१ ॥ अध्यात्मदुरापत्वमेव भावयति
Jain Education International
चरमे पुद्गलावर्ते, यतो यः शुक्लपाक्षिकः । भिन्नग्रन्थिश्चरित्री च तस्यैवैतदुदाहृतम् ॥ ७२ ॥
चरमे - पर्यन्तवर्तिनि पुद्गलावर्ते - द्रव्यतः सामान्येन सर्वपुद्गलग्रहणोज्झनरूपे प्रवृत्ते सति यतो- यस्मात् यः कश्चिद्भव्यविशेष:, तत्रापि शुक्लपाक्षिकोऽपार्धपुद्गलावर्तान्तर्गतसंसारः । यत उक्तम्- 'जेसिं अवड्ढो पोग्गल -
-
For Personal & Private Use Only
www.jainelibrary.org