________________
१५९
योगबिन्दु-सूत्र : ६६-६७-६८
१५९ उक्तं च योगमार्गजैस्तपोनिधूतकल्मषैः ।
भावियोगिहितायोच्चैर्मोहदीपसमं वचः ॥६६॥ 'उक्तं च'-निरूपितं पुन: 'योगमार्गज्ञैः'- अध्यात्मविद्भिः पतञ्जलिप्रभृतिभिः, 'तपोनिषूतकल्मषैः'-प्रशमप्रधानेन तपसा क्षीण प्रायमार्गानुसारिबोधबाधकमोहमलैः । 'भावियोगिहिताय'-भविष्यद्विवादबहुलकलिकालयोगिहितार्थम् 'उच्चैः'-अत्यर्थम् 'मोहदीपसमं-' 'मतिमोहान्धकारप्रदीपस्थानीयम्' 'वचो'- वचनम् ॥ ६६॥ एतदेव दर्शयति_ वादांश्च प्रतिवादांश्च, वदन्तो निश्चितांस्तथा ।
तत्त्वान्तं नैव गच्छन्ति, तिलपीलकवद्गतौ ॥६७॥ _ 'वादांश्च'-पूर्वपक्षरूपान् ‘प्रतिवादांश्च' –परोपन्यस्तपक्षप्रतिवचनरूपान् चौ-समुच्चये 'वदन्तो'-ब्रुवाणा: 'निश्चितान्'-असिद्धानैकान्तिकादिहेतुदोषपरिहारेण । 'तथा'-तेन प्रकारेण तत्तच्छास्त्र(तदवस्थासु)प्रसिद्धेन सर्वेऽपि दर्शनिनो मुमुक्षवोऽपि। किमित्याह 'तत्त्वान्तं' आत्मादितत्त्वप्रसिद्धिरूपं नैव गच्छन्ति प्रतिपद्यन्ते 'तिलपीलकवत्'- निरुद्धाक्षसंचारतिलयन्त्रवाहननियुक्तैकगोमहिषादिवत् 'गतौ'-वहनरूपायां सत्यामिति । यथासौ तिलपीलको गवादिनिरुद्धाक्षतया नित्यं भ्राम्यन्नपि न तत्परिमाणमवबुध्यते, एवमेतेऽपि वादिनः स्वपक्षाभिनिवेशान्धा विचित्रं वदन्तोऽपि नोच्यमानतत्त्वं प्रतिपद्यन्त इति ॥६७॥ तर्हि 'कस्तत्र प्रतिपत्त्युपाय इत्याशंक्याह
अध्यात्ममत्र परम उपायः परिकीर्तितः । -- गतौ सन्मार्गगमनं, यथैव ह्यप्रमादिनः ॥६८॥
'अध्यात्म'-वक्ष्यमाणरूपम् अत्र-तत्त्वप्रतिपत्तौ 'परम:'-प्रकृष्टः । उपायो-हेतुः । 'परिकीर्तितः'-प्रज्ञप्तः । दृष्टान्तमाह-'गतौ'-विशिष्टनगरप्राप्तौ 'सन्मार्गगमनं'- सताऽविसंवादकेन मार्गेण पथा गमनम् ‘यथैव' इति दृष्टान्तार्थः, 'हि'-स्फुटम् 'अप्रमादिनः' गन्तुरुपाय इति ॥ ६८॥
१. प्रायः इति -A.C. प्रत्योः नास्ति; २ कस्तत्त्वप्रति -A.;.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org