________________
योगबिन्दु-सूत्र : ६०-६१-६२
१५७ 'न च'- नैव ‘एतेषामपि'-एकस्थानादागतानां, किं पुनर्भवान्तरादागतानामपीत्यपिशब्दार्थ: 'हि' यस्माद् 'एतद्'-इदम् 'उन्मादग्रहयोगतः'-उन्मादो मोहावेशो, ग्रहश्च भूतावेशस्तत उन्मादग्रहयोर्योगः सम्बन्धस्तस्मात् 'सर्वेषां' समस्तानाम् किमित्याह-अनुभूतार्थस्मरणं स्यात्'-भवेत्, 'विशेषतः'-सर्वाविशेषान्प्रतीत्य, किन्तु सामान्येनैव ॥६०॥
अथ दार्टान्तिके सर्वेषां सामान्येन स्मृतिर्यथा स्यात्तथाह
सामान्येन तु सर्वेषां, स्तनवृत्त्यादिचिह्नितम् ।
अभ्यासातिशयात्स्वप्नवृत्तितुल्यं व्यवस्थितम् ॥६१॥ 'सामान्येन'-साधारणतया 'तुः' विशेषणार्थः 'सर्वेषां'-समस्तानां प्राणिनाम् 'स्तनवृत्त्यादिचिह्नितं'-स्तनवृत्तिस्तदहर्जातानां स्तनपानरूपा आदिशब्दाद्रमणीयरूपकन्दुकाद्यवलोकनकुतूहलादिका विविधा चेष्टा गृह्यते, तया चिह्नितं व्यक्तिभावमानीतम् 'जातिस्मरणं' इति गम्यते । कीदृशमित्याह 'अभ्यासातिशयात्पुनःपुनरासेवनमभ्यासस्तस्यातिशय उत्कर्षस्तस्मात् 'स्वप्नवृत्तितुल्यं'-स्वप्नकालोपलभ्यमानदिवसानुभूतवनदेवकुलादिविहारादिव्यवहारसमम् 'व्यवस्थितं'-प्रतिष्ठितम् । यथाभ्यासातिशयात्स्वप्ने दिनानुभूतोऽर्थ उपलभ्यते, एवं स्तनवृत्त्यादिको व्यवहारः प्राग्भवानुभूतो भवान्तरं इति ॥६१॥ ननु स्वप्नवृत्तिः पश्चादपि स्मर्यते न त्वेवं स्तनादिवृत्तिर्भवान्तरसम्बन्धिनीह.स्मर्यत इति कथमनयोर्दृष्टान्तदाान्तिकभाव इत्याशंक्याह
स्वप्ने वृत्तिस्तथाभ्यासाद्विशिष्टस्मृतिवर्जिता ।
जाग्रतोऽपि क्वचित्सिद्धा, सूक्ष्मबुद्ध्या निरूप्यताम् ॥१२॥ 'स्वप्ने वृत्ति:'-उक्तरूपा तथाभ्यासात्'-तत्प्रकारादभ्यासात्, मन्दाभ्यासादित्यर्थः 'विशिष्टस्मृतिवर्जिता' स्फुटप्रतिभासरूपस्मरणरहिता 'क्वचित्सिद्धा' इत्युत्तरेण योगः । तथा 'जाग्रतोऽपि'-क्षीणनिद्रस्य कस्यचित्किं पुनरन्यस्येति, 'क्वचित् क्षेत्रे काले वा' 'सिद्धा'-सर्वलोकसंमत्या प्रतिष्ठिता वृत्ति:-गच्छत्तॄणस्पर्शादिका तथाभ्यासादेव स्मृतिवर्जिता । एतदर्थप्रतीतावुपदेशमाह 'सूक्ष्मबुद्ध्या'-परिभाव्यतामेतत्, अन्यथोक्तस्याप्यर्थस्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org