________________
. १५६
योगबिन्दु-सूत्र : ५८-५९-६० सद्भूतार्थागमस्याध्ययनेन वाचनापृच्छनादिस्वभावेन । चः समुच्चये । 'विद्यामन्त्रविशेषेण' -ससाधना स्त्रीस्वामिका वा विद्या, मन्त्रश्च तदितररूपः, ततो मन्त्रव्याकरणप्रसिद्धयोर्विद्यामन्त्रयोर्विशेषेण भेदेन 'सत्तीर्थासेवनेन च' सतः सातिशयस्य व्यसनसलिलनिधिनिस्तारणोपायस्य स्थावरजङ्गमभेदभिन्नस्य तीर्थस्यासेवनेन पर्युपासनेन । च: प्राग्वत् ॥५७॥ तथा
'पित्रो:- 'जननीजनकयो: 'सम्यग्'-यथावद्, 'उपस्थानात्'-त्रिसन्ध्यप्रणामादिविनयरूपात्, 'पूजनं चास्य विज्ञेयं त्रिसन्ध्यं नमनक्रिया' (श्लो१११) इत्यादिवक्ष्यमाणात्, 'ग्लानभैषज्यदानतो'-ग्लानानां-ज्वरादिरोगोपहतशरीरशक्तीनां भैषज्यस्य-औषधस्य दानतो-वितरणात्, 'देवादिशोधनाच्चैव'-देवदेवस्थानपुस्तकसाधूपाश्रयादेर्धर्मकार्योपयोगिनः शोधनात्तथाविधमलापनयनेन निर्मलीकरणाद्, 'भवेत्'-जायेत 'जातिस्मरो'ऽनुभूतभवस्मर्ता 'पुमान्' प्राणी, ब्रह्मचर्यादीनां योगविशेषाणां ज्ञानावरणहासान्तरङ्गकारणत्वात् ॥१८॥ अत्रैव प्रसङ्गसिद्धिमाह
अत एव न सर्वेषामेतदागमनेऽपि हि।
परलोकाद्यथैकस्मात्स्थानात्तनुभृतामिति ॥५९॥ 'अत एव'-ब्रह्मचर्यादेर्जातिस्मरणहेतुत्वादेव, न-नैव, सर्वेषां-देहिनाम् । एतद्-जातिस्मरणम्, 'आगमनेऽपि हि'-आगतावपि किं पुनर्लोकायतमतेन तदभाव इत्यपिहिशब्दार्थः । 'परलोकात्' परभवात् 'यथा'-इति दृष्टान्तार्थे, एकस्मात्स्थानात्पाटलिपुत्रकादेरागमनेऽपि 'तनुभृतां'-तत्रानुभूतार्थस्मरणम् 'इति:' वाक्यपरिसमाप्तौ । इदमुक्तं भवति-यथैकस्मात्पाटलिपुत्रकादेः स्थानादागतानामपि सुबहूनां पथिकानां वचिद्विवक्षिते स्थाने न सर्वेषां प्रागनुभूतार्थस्मृतिरुपजायते, किन्तु केषाञ्चिदेव, एवं भवान्तरस्मृतावपि योजना कार्येति । न चाल्पबहुत्वेन स्मर्तृणां दृष्टान्तदाान्तिकयोर्वैषम्यमुद्भावनीयं, स्मर्तृसम्भवमात्रस्य प्रतिपादयितुमिष्टत्वाद् दृष्टान्तदाान्तिकयोः सर्वथा साधाभावाच्च ॥५९॥ एतदेव भावयन्नाह
न चैतेषामपि ह्येतदुन्मादग्रहयोगतः । सर्वेषामनुभूतार्थस्मरणं स्याद्विशेषतः ॥६०॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org