________________
योगबिन्दु - सूत्र : ५५-५६-५७-५८
अरहन्तचक्ववट्टी बलदेवा वासुदेवाय ॥२॥ (आव. नि. ६९-७०) तथा* - अलौल्यमारोग्यमनिष्ठुरत्वं, गन्धः शुभो मूत्रपुरीषमल्पम् ॥ कान्तिः प्रसादः स्वरसौम्यता च, योगप्रवृत्तेः प्रथमं हि लिङ्गम् ॥1॥ मैत्र्यादियुक्तं विषयेष्वचेतः, प्रभाववद्धैर्यसमन्वितं च । द्वन्द्वैरधृष्यत्वमभीष्टलाभो, जनप्रियत्वं च तथा परं स्यात् ॥2॥ दोषव्यपायः परमा च तृप्तिरौचित्ययोगः समता च गुर्वी ॥ वैरादिनाशोऽथ ऋतम्भराधीर्निष्पन्नयोगस्य तु चिह्नमेतत् ॥3 ॥ ॥५५ ॥ अथोक्तादेव योगफलात्तत्त्वान्तरप्रसिद्ध्यर्थमाह
न चैतद् भूतसङ्घातमात्रादेवोपपद्यते । तदन्यभेदकाभावे, तद्वैचित्र्याऽप्रसिद्धितः ॥५६॥ 'न च'- नैव 'एतद्'- योगमाहात्म्यं भावयोगिषूपलभ्यमानम् 'भूतसङ्घातमात्रादेव' - पृथ्व्यादिमहाभूतसङ्घातात् केवलादात्मादिरूपतत्त्वान्तरशून्याद् ‘उपपद्यते’-घटते । कुत इत्याह ' तदन्यभेदकाभावे'- तस्माद्भूतसङ्घाताद्यदन्यत्तत्त्वन्तरमात्मादिलक्षणं भेदकं विशेषकारि तस्याभावे 'तद्वैचित्र्याऽप्रसिद्धित: ' तेषां भूतसङ्घातानां कायाकारपरिणतानामपि वैचित्र्यस्य नानात्वस्य योगमाहात्म्ययुक्तत्वेतरलक्षणस्याऽप्रसिद्धेरघटनात्, अतो बलादनुमिमीमहे भूतसङ्घातातिरिक्तं विचित्रशक्तिसङ्गतं तत्त्वान्तरं समस्ति यद्वशादयं योगमाहात्म्यभावाभावलक्षणो भेदः सम्पद्यते ॥ ५६ ॥
अथ योगमाहात्म्यादेव प्रकारान्तरेण परलोकसिद्धिमाह
१५५
ब्रह्मचर्येण तपसा सद्वेदाध्ययनेन च । विद्यामन्त्रविशेषेण सत्तीर्थासेवनेन च ॥५७॥ पित्रोः सम्यगुपस्थानाद्, ग्लानभैषज्यदानतः । देवादिशोधनाच्चैव भवेज्जातिस्मरः पुमान् ॥ ५८ ॥ युग्मम् ) 'ब्रह्मचर्येण' - भावतो बस्तिनिरोधरूपेण, 'तपसा' - उपवासादिना 'सद्वेदाध्ययनेन च', सता - सुन्दरेणात्मानुग्रहादिपरिणामयुक्ततया, वेदस्य -
* एतास्तिस्रो गाथाः योगदृष्टिसमुच्चयेऽपि श्लोक १६१ वृत्तौ सन्ति.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org