________________
१५४
तथा
योगबिन्दु - सूत्र :
धृतिः क्षमा सदाचारो योगवृद्धिः शुभोदया । आदेयता गुरुत्वं च, शमसौख्यमनुत्तरम् ॥५४॥
(त्रिभिर्विशेषकम् )
धृतिर्येनकेनचिद्वसन भोजनादिना निर्वाहमात्रनिमित्तेन सन्तोष:, 'क्षमा'सत्येतरदोषश्रवणेन कार्यतत्त्वमविचार्यान्तर्बहिश्च कोपोदयाद्विक्रियामापद्यमानस्यात्मनो निरोधनम्, ‘सदाचार : '- सर्वोपकारप्रियवचनाकृत्रिमोचितस्नेहादिका सज्जनचेष्टा । ‘योगवृद्धिः' - सम्यग्दर्शनादिमुक्तिबीजोत्कर्षरूपा 'शुभोदया'प्रशस्तफलोद्गमहेतु:, ' धृत्यादेः प्रत्येकविशेषणमेतत् । ' आदेयता'परैरादरणीयवचनचेष्टन रूपा । 'गुरुत्वं च ' - सर्वत्र गौरवलाभलक्षणम् । तथा 'शमसौख्यम्'-अतिमन्दीभूतकषायविषदोषतया प्रशमशर्म 'अनुत्तरं 'विषयसेवाजनितानन्दातिशायि । यतः पठ्यते ( प्रशमरतौ - २३८)‘निर्जितमदमदनानां, वाक्कायमनोविकाररहितानाम् ॥ विनिवृत्तपराशानामिहैव मोक्षः सुविहितानाम् ॥२३८ ॥ ' इति । अत्र च श्लोकत्रये चकारास्तथाशब्दश्च समुच्चयार्थाः ॥५४॥
आविद्वदङ्गनासिद्धमिदानीमपि दृश्यते ।
एतत्प्रायस्तदन्यत्तु, सुबह्वागमभाषितम् ॥५५ ॥ 'आविद्वदङ्गनासिद्धम्' आविद्वद्भ्य आअङ्गनाभ्यश्च यो लोकस्तस्येत्यर्थः, 'सिद्धं' - प्रतीतम् ' इदानीमपि ' - दुःषमायां किं पुनः सुषमदुःषमादावित्यपिशब्दार्थः, 'दृश्यते'ऽवलोक्यते ' एतत् ' - प्रागुक्तं योगफलम् ' प्रायो'- बाहुल्येन, 'तदन्यत्तु'उक्तादन्यत्पुनर्योगफलम् 'सुबहु' - अतिभूरि आमर्षौषध्यादिकर्द्धिप्राप्तिरूपम् 'आगमभाषितम् ' - आवश्यकनिर्युक्तयादिनिरूपितम् ॥ यदुक्तं तत्र'आमोसहिविप्पोसहि- खेलोसहिजल्लमोसही चेव' । संभिन्नसोयउज्जुमई, सव्वोसही चेव बोधव्वा ॥१॥ चारणआसीविसकेवली य, मणणाणिणो य पुव्वधरा ।
Jain Education International
-
१. धृत्यादिप्रत्ये - A. B. C.; २. रूपता -A.B.C.;
-
For Personal & Private Use Only
www.jainelibrary.org