SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ योगबिन्दु -सूत्र : ५१-५२-५३ १५३ विवर्य मासान्नव गर्भमध्ये, बहुप्रकारैः कललादिभावैः। उद्वर्त्य निष्कासयते सवित्र्याः को गर्भतः कर्म विहाय पूर्वम् ॥३॥" इत्यादि। "वीतरागोऽस्ति सर्वज्ञः प्रमाणाऽबाधितत्वतः । सर्वदा विदितः सद्भिः सुखादिकमिव रुवम् ॥१॥ क्षीयते सर्वथा रागः, क्वापि कारणहानितः । ज्वलनो हीयते किं न, काष्ठादीनां वियोगतः ॥२॥ प्रकर्षस्य प्रतिष्ठान, ज्ञानं क्वापि 'प्रपठ्यते । परिमाणमिवाकाशे, तारतम्योपलब्धितः ॥३॥ इत्यादि ॥५१॥ अत्रैवाभ्युच्चयमाह किं चान्यद्योगतः स्थैर्य धैर्यं श्रद्धा च जायते । मैत्री जनप्रियत्वं च, प्रातिभं तत्त्वभासनम् ॥५२॥ ___ "किं च' इत्यभ्युच्चये अन्यत्-प्रागुक्ताद्विलक्षणं योगफलमस्ति, तदेव दर्शयति 'योगतो'-योगात् 'स्थैर्य'-स्थिरभावः प्रतिपन्ननिर्वाहणे, 'धैर्य'व्यसनाशनिसन्निपातेऽप्यविचलितप्रकृतिभाव: 'श्रद्धा च' रुचिस्तत्त्वमार्गानुगा 'जायते'-आविर्भवति । 'मैत्री'-सर्वसत्त्वेषु मित्रभावः 'जनप्रियत्वं च'शिष्टलोकवल्लभभाव: 'प्रातिभं'-सहजप्रतिभाप्रभवम् 'तत्त्वभासनं जीवादितत्त्वावलोकनं भवतीति ॥५२॥ तथा- . विनिवृत्ताऽऽग्रहत्वं च, तथा द्वन्द्वसहिष्णुता । तदभावश्च लाभश्च, बाह्यानां कालसङ्गतः ॥५३॥ "विनिवृत्ताग्रहत्वं च'-निर्मुक्तानुचितार्थाभिनिवेशित्वं च, 'तथा द्वन्द्वसहिष्णुता" निरुपक्रमक्लिष्टकर्मोदयापादितानामिष्टवियोगानिष्टसम्प्रयोगादीनां व्यसनानां सम्यक्सहनभावः, 'तदभावश्च'-द्वन्द्वविनाशश्च, प्रायः परिशुद्धयोगोपहतशक्तिकत्वात् द्वन्द्वसम्पादकापायानाम्, 'लाभश्च'-प्राप्तिश्च 'बाह्यानां'निर्वाहादीनां समाधिहेतूनाम् 'कालसङ्गतो'-यो यत्र काले योग्य इति ॥५३॥ १. प्रपद्यते-AB.C.; . . Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004175
Book TitleHaribhadra Yogbharti
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2009
Total Pages346
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy