________________
योगबिन्दु -सूत्र : ५०-५१-५२ ऐन्द्रियकाध्यक्षविषयभावातिक्रान्तमप्यात्मादिवस्तु किं पुनरितररूपमित्यपिशब्दार्थः, अलम्-अत्यर्थं हस्ततलन्यस्तनिस्तलस्थूलमुक्ताफलाव लोकनोदाहरणेन 'विजानाति'-प्रेक्षते, एतद् - योगिसमध्यक्षं, दिव्यदर्श- नत्वात्तस्य । यदि नामैवं ततः किं सिद्धमित्याह ‘एवं च'-अस्मिंश्च प्रकारे सति, ‘बाधा'अघटनालक्षणा 'अत्रापि'-आत्मादिनिश्चये न केवलमप्सरःप्रभृतावर्थ इत्यपिशब्दार्थः 'न विद्यते'- नास्ति ॥५०॥ .. इत्थमागमगम्यत्वमभिधायाऽधुनानुमानविषयत्वमाह- .
आत्माद्यतीन्द्रियं वस्तु, योगिप्रत्यक्षभावतः ।
परोक्षमपि चान्येषां, न हि युक्तया न युज्यते ॥५१॥ 'आत्मादि'-आत्मकर्मसर्वज्ञादि 'अतीन्द्रियम्'-इन्द्रियविषयभावातीतं वस्तु, 'न हि न युज्यते' इत्युत्तरेण योग: । कीदृशमित्याह ‘योगिप्रत्यक्षभावत:'सर्वज्ञज्ञानविषयभावेन 'परोक्षमपि च' इन्द्रियज्ञानाऽगोचरमपि किं पुनरपरोक्षमित्यपि शब्दार्थः, 'अन्येषां'- अस्मादृशामर्वाग्दृशाम्, 'न हि'-नैव ‘युक्तया'शुद्धहेतुप्रयोगरूपया 'न युज्यते' किं तु युज्यत एव । तत्र युक्ति:
"अचेतनानि भूतानि, न तद्धर्मो न तत्फलम् ॥ .. चेतनास्ति च यस्येयं, स एवात्मेति बुध्यताम् ॥३१॥ यदीयं भूतधर्मः स्यात्प्रत्येकं तेषु सर्वदा ॥ उपलभ्येत सत्त्वादि-कठिनत्वादयो यथा ॥३२॥ काठिन्यादिस्वभावानि, भूतान्यध्यक्षसिद्धितः ॥ चेतना तु न तद्रूपा, सा कथं तत्फलं भवेत् ॥३३॥" [शा०वा०स०]
इत्यादि। "तुल्यप्रतापोद्यमसाहसानां केचिल्लभन्ते निजकार्यसिद्धिम् ॥ परे न तामत्र निगद्यतां मे कर्मास्ति हित्वा यदि कोऽपि हेतुः ॥१॥ विचित्रदेहाकृति-वर्ण-गन्ध-प्रभाव-जातिप्रभवस्वभावाः। केन क्रियन्ते भुवनेऽङ्गिवर्गाश्चिरन्तनं कर्म निरस्य चित्राः ॥२॥
१ त्यपिच-AB.C.; २. भो-A.B.C.;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org