________________
योगबिन्दु - सूत्र : ४७-४८-४९-५०
१५१
देवतानुग्रहमन्त्रप्रयोगादिनिमित्तक इत्यादिकोऽर्थो गोचरो विषयो यत्र तत्तथा । इदमुक्तं भवति छद्मस्थस्य पृथिव्यादिरूपभूतमात्रपरिहारेणातीन्द्रिये देवतादावर्थे विधिप्रतिषेधयोः प्रत्यक्षमक्षममेव तस्य तदविषयत्वादिति ॥ ४७ ॥ एतदेव भावयति
प्रलापमात्रं च वचो यदप्रत्यक्षपूर्वकम् ।
यथेहाप्सरसः स्वर्गे मोक्षे चानन्द उत्तमः ॥४८ ॥ प्रलापमात्रम्-अनर्थकमेव 'च: ' समुच्चये 'वचो' - वचनम् । कीदृशमित्याह- ‘यदप्रत्यक्षपूर्वकं ' - प्रत्यक्षेणानुपलभ्य यद्भाषितम्, दृष्टान्तमाह-यथेह मर्त्यलोके कश्चिद्वक्त्यसर्वज्ञवादी मीमांसकादिः, अप्सरसः - मेनका - रम्भाद्याः 'स्वर्गे' सन्ति 'मोक्षे च' - मुक्तौ पुनः 'आनन्दः '- आह्लाद 'उत्तम:'सर्वातिशायी, साक्षाददृष्टे हि वाच्य अप्सरः प्रमुखे ब्रुवाणो मीमांसकादिः प्रलापमात्रकार्येव स्यात् । एवं नास्तिकोऽप्यतीन्द्रियं देवतादिकं निह्नवान इति
॥४८॥
अथैवमनवकाशीकृतः कदाचित्परलोकसंशयवादी मीमांसको वा
ब्रूयाद्यथा
योगिनो यत्समध्यक्षं ततश्चेदुक्तनिश्चयः ।
आत्मादेरपि युक्तोऽयं तत एवेति चिन्त्यताम् ॥४९॥
'योगिनो’-दिव्यदृशः प्रमातुः, यत्समध्यक्षं - 'प्रत्यक्षज्ञानं ततस्तत्समध्यक्षात् ‘चेद्’-यदि उक्तनिश्चयोऽप्सरसः स्वर्गे, मोक्षे चानन्द इति प्रागुक्तार्थनिर्णयो जायते । एवं तर्हि 'आत्मादेरपि' अतीन्द्रियार्थस्य किं पुनः प्रस्तुतस्येत्यपि शब्दार्थः । युक्तो घटमानोऽयं निश्चयः 'तत एव' योगिसमध्यक्षादेव 'इति' एतद् 'चिन्त्यतां ' - विमृश्यतामिति ॥ ४९ ॥ एतदेव भावयति
अयोगिनो हि प्रत्यक्षगोचरातीतमप्यलम् ।
विजानात्येतदेवं च, बाधाऽत्रापि न विद्यते ॥५०॥ ‘अयोगिनो'ऽर्वाग्दृशः प्रमातुः 'हि' - यस्मात् 'प्रत्यक्षगोचरातीतमपि '
१. प्रत्यक्षं - A.B.;..
૨
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org