________________
योगबिन्दु - सूत्र : ४५-४६-४७
नोदनापि च सा यतो यथार्थैवोपजायते । तथाकालादिभेदेन, हन्त नोपपप्लवस्ततः ॥४५ ॥ 'नोदनापि च' न केवलं देवतादर्शनादि 'सा' देवादिकृता यतो यस्मात्कारणाद् 'यथार्थैव'- सूचितप्रयोजनफलैव उपजायते । कथमित्याह 'तथाकालादिभेदेन'- तत्प्रकारकालक्षेत्रभावविशेषेण । 'हन्त' इति प्राग्वत् । 'न'-नैव‘उपप्लव:'-वातादिधातुविकारजनितश्चित्तसंक्षोभो वर्तते प्रेरणा, 'ततः 'यथार्थत्वाद्धेतोः, न हि यथार्थफलभाजः अविसंवादिरूपत्वाल्लोक उपप्लवरूपतां लभन्ते, किं तु सत्यरूपतामेवेति ॥४५ ॥ तथा
१५०
स्वप्नमन्त्रप्रयोगाच्च सत्यः स्वप्नोऽभिजायते ।
विद्वज्जनेऽविगानेन सुप्रसिद्धमिदं तथा ॥ ४६ ॥
'स्वप्नमन्त्रप्रयोगाच्च' - स्वप्नमन्त्रः स्वप्नलाभफलो मन्त्रविशेषः तत्प्रयोगाच्चकाराच्छुद्धयोगाच्च‘सत्य: स्वप्नो'- यथार्थस्वप्नः 'अभिजायते'- आविर्भवति । एतदेव दृढीकुर्वन्नाह 'विद्वज्जने' - मतिमल्लोके 'अविगानेन' - अविप्रतिपत्त्या 'सुप्रसिद्धं' - अतीव ख्यातिमागतं 'इदं' - स्वप्नमन्त्रप्रयोगात्सत्यः स्वप्नो जायत इत्येतत् 'तथा’- तेन प्रकारेण ॥ ४६ ॥
न च भूतहेतुकोऽयं व्यवहार इति दर्शयति
न ह्येतद् भूतमात्रत्वनिमित्तं सङ्गतं वचः । अयोगिनः समध्यक्षं यत्रैवंविधगोचरम् ॥४७॥
-
'न हि' नैव, एतदुक्तरूपं देवतादर्शनादि 'भूतमात्रत्वनिमित्तं' - भूतमात्रत्वं - केवलभूतभाव एव निमितं हेतुर्यस्य तत्तथा इत्येवं परेण प्रवर्तमानं 'सङ्गतं'घटमानकं 'वचो'-वचनम्, 'एतत्स्वप्नदर्शनादि यत्कैश्चिद् भूतमात्रनिमितमित्युच्यते तदसङ्गतं वच' इत्यर्थः । कुत इत्याह ' अयोगिनः '- अर्वाग्दर्शिनः प्रमातुः 'समध्यक्षं'- प्रत्यक्षं चाक्षुषादि 'यत्' - यस्मात् न नैव 'एवंविधगोचरं'एवंविधः स्वप्नदर्शनादिरतीन्द्रियोऽर्थो भूतमात्रनिमित्तो न तु
१. यस्माद्-A.B.C.; २. चोदना - A.B; ३. यतो - A. B. C. प्रतिषु नास्ति
Jain Education International
For Personal & Private Use Only
(च)
www.jainelibrary.org