SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ १४९ योगबिन्दु -सूत्र : ४२-४३-४४ 'झवम्'-असंशयम् 'सत्स्वप्नप्रत्ययादिभ्यः'-सत्स्वप्नवनिद्रायमाणावस्थायां स्वर्गादिभवान्तरदर्शनलक्षणाद्यः 'प्रत्ययः'-प्रतीतिर्भवान्तरस्य, आदिशब्दानिजोहापोहतथाविधागमाभ्यासजन्यप्रत्ययग्रहस्तेभ्यः सकाशात् 'संशयः'संदेहो 'विनिवर्तते'-उपरमति । 'शुद्धसमाचारा हि साधवः सत्स्वप्नलाभेन निजोहापोहयोगेन सदागमाभ्यासेन च प्राक् संशयितमनसोऽपि व्यावर्तितविपर्यासहेतुमिथ्यात्वादिमोहोदया अभ्रकगृहान्तर्ध्वलितप्रदीपप्रभोदाहरणेन भवान्तरं निर्णयन्त्येवेति' ॥४२॥ न च वक्तव्यं 'स्वप्नोऽपि कथं लभ्यते' इति यतः श्रद्धा'लेशानियोगेन बाह्ययोगवतोऽपि हि । शुक्लस्वप्ना भवन्तीष्टदेवतादर्शनादयः ॥४३॥ 'श्रद्धा'लेशाद्'-बहुमानांशाद् 'नियोगेन'-नियमेन 'बाह्ययोगवतोऽपि हि'-तथाविधोपयोगशून्यतया भावयोगानुरूपक्रियामात्रयुक्तस्य, किंपुनरबाह्ययोगवत इत्यपिहीतिशब्दार्थः । किमित्याह 'शुक्लस्वप्ना:'-अमलीमसा: स्वप्नाः भवन्ति-जायन्ते 'इष्टदेवतादर्शनादयः'-दिवसारब्धाराधनजिनगुरुधार्मिकदर्शनादिलक्षणाः ॥४३॥ तथा देवान् गुरून् द्विजान् साधून् सत्कर्मस्था हि योगिनः । प्रायः स्वजे प्रपश्यन्ति हृष्टान् सत्रोदनापरान् ॥४॥ "देवान्'-आराध्यतमान् जिनादीन्, 'गुरून्'-धर्माचार्यादीन् मातापित्रादीन्वा 'द्विजान्'-लब्धदीक्षानामकद्वितीयजन्मनो मुनीन् 'साधून्'-शेषशिष्टलोकान् 'सत्कर्मस्था:: स्वसिद्धान्ताऽविरुद्धक्रियास्थिता "हि-प्राग्वत् 'योगिनो'योगाभ्यासपरा: प्राणिनः किमित्याह 'प्राय:'-बाहुल्येन 'स्वप्ने'-प्रतीतरूप एव प्रपश्यन्ति'-प्रेक्षन्ते हष्टान्'-हर्षवतः, तथा 'सत्रोदनापरान्'शुद्धार्थविषय प्रेरणपरायणान् ॥४४॥ न चासौ भ्रान्तेति भावयन्नाह १. लेश्या-A; २. लेश्याद्-A: ३. तथा देवानित्यादि-B.C; ४. हि:-A.B.C.; ५. प्रेरणापरान्A . . Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004175
Book TitleHaribhadra Yogbharti
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2009
Total Pages346
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy