________________
१४८
योगबिन्दु-सूत्र : ३९-४०-४१-४२ कुण्ठीभवन्ति तीक्ष्णानि मन्मथास्त्राणि सर्वथा ।
योगवर्मावृते चित्ते तपश्छिद्रकराण्यपि ॥३९॥ . _ 'कुण्ठीभवन्ति'-मन्दानि जायन्ते 'तीक्ष्णानि'-निशितानि मन्मथास्त्राणि' शब्दादिविषयरूपाणि 'सर्वथा'-सर्वप्रकारैः । केत्याह 'योगवर्मावृते'योगसन्नाहवति 'चित्ते'-मनसि, कीदृशानीत्याह - तपश्छिद्रकराण्यपि मासक्षपणादितपोभ्रंशकारीण्यपि तथाविधयोगविकलानां तपस्विनामिति ॥३९॥
अक्षरद्वयमप्येतत् श्रूयमाणं विधानतः ।
गीतं पापक्षयायोच्चैर्योगसिद्धैर्महात्मभिः ॥४०॥ 'अक्षरद्वयमपि' किं पुनः पञ्चनमस्कारादीन्यक्षराणीत्यपिशब्दार्थः । 'एतत्' 'योग' इति शब्दलक्षणं 'श्रूयमाणम्' आकर्ण्यमानम् तथाविधार्थानवबोधेऽपि । 'विधानतो'-विधानेन श्रद्धासंवेगादिशुद्धभावोल्लासकरकुड्मलयोजनादिलक्षणेन । 'गीतम्'-उक्तं 'पापक्षयाय'-मिथ्यात्वमोहाद्यकुशलकर्मनिर्मूलनाय 'उच्चैः'-अत्यर्थम्। कैर्गीतमित्याह 'योगसिद्धैः'योग: सिद्धो निष्पन्नो येषां ते तथा, तैर्जिनगणधरादिभिः 'महात्मभिः'प्रशस्तस्वभावैरिति ॥४०॥ तथा
मलिनस्य यथा हेम्नो वह्नः शुद्धिर्नियोगतः ।
योगाग्नेश्चेतसस्तद्वदविद्यामलिनात्मनः ॥४१॥ 'मलिनस्य'-ताम्रादिमलबहुलस्य 'यथा' इति दृष्टान्तार्थः' 'हेम्न:'सुवर्णस्य 'वढे:'-वैश्वानरात् 'शुद्धि:'-निर्मलता नियोगतो-नियोगे(यमे)न, शुद्धिकारणानां स्वकार्याव्यभिचारात्, 'योगाग्ने':-योगवहे: 'चेतसो'-मनसः शुद्धिः 'तद्वद्' हेमवद् कीदृशो मनस इत्याह 'अविद्यामलिनात्मन:'सद्भूतवस्तुविषयभ्रान्तिवशाऽशुद्धीभूतस्वरूपस्येति ॥४१॥ तथा
अमुत्र संशयापन्नचेतसोऽपि ह्यतो झवम् ।
सत्स्वप्नप्रत्ययादिभ्यः, संशयो विनिवर्तते ॥४२॥ 'अमुत्र'-परलोकविषये 'संशयापनचेतसोऽपि हि'-भवान्तरं समस्ति न वेति भ्रान्तमनसः, किं पुनरन्यस्येत्यपिहीतिशब्दार्थः । अतो'-योगात्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org