________________
योगबिन्दु-सूत्र : ३५-३६-३७-३८
१४७ 'स्वरूपं'-स्वलक्षणं तथा 'सम्भवं चैवो'त्पत्तिमेव च 'वक्ष्यामि'भणिष्यामि'ऊर्ध्वम्'-उपरि अनुक्रमात्'- परिपाट्या । अमीषाम्' अध्यात्मादीनां एकादशानां योगभेदानाम्, कथमित्याह 'सम्यकशास्त्रं'-जिनागमरूपं तस्याऽनुसारतो-ऽनुसारेण ॥३५॥
इदानीं तु समासेन योगमाहात्म्यमुच्यते ।
पूर्वसेवाक्रमश्चैव, प्रवृत्त्यङ्गतया सताम् ॥३६॥ 'इदानीं तु' सांप्रतं पुनः समासेन-संक्षेपेण योगमाहात्म्यं-योगसामर्थ्यलक्षणम् उच्यते-निरूप्यते । तथा 'पूर्वसेवाया'-योगस्यैव प्रथमभूमिकारूपाया गुरुदेवादिपूजादिलक्षणाया: 'क्रमश्चैव'-परिपाटिश्चोच्यते । कथमित्याह 'प्रवृत्त्यङ्गतया'-योगप्रवृत्तिहेतुत्वेन ‘सतां'-प्रेक्षावतामिति ॥३६॥
यथोद्देशं निर्देशाद्योगमाहात्म्यमेवाह.. योगः कल्पतरुः श्रेष्ठो योगश्चिन्तामणिः परः ।
योगः प्रधानं धर्माणां योगः सिद्धेः स्वयंग्रहः ॥३७॥ 'योग' उक्तनिरुक्तः 'कल्पतरुः'-कल्पद्रुमः 'श्रेष्ठो'ऽन्यकल्पद्रुमेभ्योऽतिशायी । तथा योगश्चिन्तामणि:- चिन्तारत्नं 'परः' प्रकृष्टः । 'योगः प्रधानं' वस्तु'धर्माणां'-शेषधर्मस्थानानाम् । तथा 'योगः सिद्धेर्निर्वृतिलक्षणायाः स्वयंग्रहहेतुत्वात्-स्वयंग्रहः । यदत्र पुनः पुनर्योगशब्दोपादानं, तदस्यात्यन्तमादरणीयताख्यापनार्थमिति ॥३७॥ . . ... तथा च जन्मबीजानिर्जरसोऽपि जरा परा ।
दुःखानां राजयक्ष्माऽयं मृत्योर्मृत्युरुदाहृतः ॥३८॥ _ 'तथा च" इति समुच्चये, 'जन्मबीजाग्निः' पुन:पुनर्जन्मकारणकर्मशक्तिदाहकारी । तथा 'जरसोऽपि'-जराया अपि जरा'-वयोहानिकारणत्वात् 'परा' प्रकृष्टा । तथा 'दुःखानां'-शारीरमानसबाधारूपाणां 'राजयक्ष्मा'राजमान्द्यमिव 'अयं' योगः । तथा 'मृत्यो':-अन्तकस्य 'मृत्युरुदाहृतः' शास्त्रकारैर्निरूपितः ॥३८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org