________________
१४६
योगबिन्दु-सूत्र : ३१-३२-३३-३४-३५ अध्यात्म भावना ध्यानं समता वृत्तिसंक्षयः । .
मोक्षेण योजनाद्योग एष श्रेष्ठो यथोत्तरम् ॥३१॥ १-अध्यात्मं २-भावना ३-ध्यानं ४-समता ५-वृत्तिसंक्षयः । किमित्याह 'मोक्षण' सह 'योजनात्'-संयोगकरणात् 'योग एष' उक्तभेदः 'श्रेष्ठो' भावरूपतया निरुपचरितः, 'यथोत्तरं'-यो यस्योत्तर इति ॥३१॥ तथा
तात्त्विकोऽतात्त्विकश्चायं सानुबन्धस्तथापरः ।
सास्त्रवोऽनास्त्रवश्चेति संज्ञाभेदेन कीर्तितः ॥३२॥ 'तात्त्विक:'-परमार्थभवः अतात्त्विकश्च' तदितर: अयं-योगः, सानुबन्धोऽनुबन्धवान् ‘तथा' इति समुच्चये, 'अपरो'-निरनुबन्धः तथा 'सास्रवो'दीर्घसंसारफलकर्मबन्धयुक्तः 'अनास्रवश्च' तदितरः, 'इति'- एवम् 'संज्ञाभेदेन' नामान्तररूपेण 'कीर्तितो'-निरूपितो योगशास्त्रकारैरेष योग इति ॥३२॥ अथैनमेव तात्त्विकादिभेदं व्याचष्टे___ तात्त्विको भूत एव स्यादन्यो लोकव्यपेक्षया ।
अच्छिन्नः सानुबन्धस्तु छेदवानपरो मतः ॥३३॥ . 'तात्त्विको भूत एव' निर्वाणैकाभिलाषितया सद्भूत एव यः सः, 'स्याद् अन्यो' ऽतात्त्विक: स यो 'लोकव्यपेक्षया' लोकचित्ताराधनरूपतया, तथा 'अच्छिन्नः' आमुक्तिप्राप्तेरत्रुटितो यः सः 'सानुबन्धस्तु' पुनः, तथा 'छेदवान्'-छिन्नसन्तानो योगः 'अपरो'ऽसानुबन्धो मतो-मतिमतामिति ॥३३ ।।
सास्रवो दीर्धसंसारस्ततोऽन्योऽनास्त्रवः परः ।
अवस्थाभेदविषयाः संज्ञा एता यथोदिताः ॥३४॥ 'सास्रवो' योग क इत्याह 'दी?' भूयान्संसारो यत्र स दीर्घसंसारः, ततः सास्रवादन्यो विलक्षणोऽनास्रवो योगः परः'प्रकृष्टः। अवस्थाभेदविषयाः अवस्थाभेदो विषयो गोचरो यासां तास्तथा 'संज्ञा' नामानि एता' अनन्तरनिरूपिताः 'यथोदिता'-यथार्थाः ॥३४॥ अथ तद्योगभेदगतमेव किंचिदाह
स्वरूपं सम्भवं चैव वक्ष्याम्यूर्ध्वमनुक्रमात् । अमीषां योगभेदानां सम्यकशास्त्रानुसारतः ॥३५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org