________________
योगबिन्दु-सूत्र : २८-२९-३० अमुख्यविषयो यः स्यादुक्तिभेदः स बाधकः ।।
हिंसाहिंसादिवद्यद्वा तत्त्वभेदव्यपाश्रयः ॥२८॥ 'अमुख्यविषयो'ऽपरमार्थगोचरो, 'यः स्याद्'-भवेद्, 'उक्तिभेद:-' शब्दप्रवृत्तिवैसदृश्यलक्षणः, ‘स बाधको'-विरुद्ध :। दृष्टान्तमाह-'हिंसाहिंसादिवद्- नित्यरूपेऽनित्यरूपे वैकान्तेनात्मनि हिंसावदहिंसावच्च, 'यद्वा'अथवा तत्त्वभेदो-"द्रव्यगुणादिषट्तत्त्वरूपः,""सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः, प्रकृतेर्महान्, महतोऽहङ्कार" इत्यादि पञ्चविंशतितत्त्वलक्षणो वा । स 'व्यपाश्रयोऽ पेक्षणीयो यस्योक्ति'भेदस्य तथा, यथा इति गम्यते ॥२८॥ एतदेव व्यतिरेकत आह
मुख्ये तु तत्र नैवासौ, बाधकः स्याद्विपश्चिताम् ।
हिंसादिविरतावर्थे यमव्रतगतो यथा ॥२९॥ 'मुख्ये तु'-परिणामित्वादिधर्मभाज्यनुपचरिते पुनः 'तत्र' तत्त्व आत्मादौ 'नैवासौ' उक्तिभेदो 'बाधको'-विघटमानः, स्याद्विपश्चितां-मतिमताम् । दृष्टान्तमाह-हिंसादिविरतौ-हिंसानृतस्तेयादिविरमणरूपे अर्थे-पदार्थे 'यमव्रतगत:' यमगत: सांख्यानां व्रतगतो जैनानां संज्ञाभेदः, यथा इति दृष्टान्तार्थः ॥२९॥ इत्थं योगगोचरादिकमभिधाय साम्प्रतं प्रस्तुतमुप'क्रम्यते
मुख्यतत्त्वानुवेधेन स्पष्टलिङ्गान्वितस्ततः ।
युक्तयागमानुसारेण योगमार्गोऽभिधीयते ॥३०॥ मुख्यतत्त्वस्याऽऽत्मादेरनुपचरितस्य, अनुवेधेनाऽनुगमेन, स्पष्टलिङ्गान्वितः - स्फुटलक्षणोपेतः, ततो-यत एवमनेकधा योगो वचनभेदात् ततः कारणाद्, युक्त्यागमानुसारेण-अनुमानाप्तवचनानुववर्तनेन, योगमार्गे-योग एव निर्वाणपुरप्रापकतया मार्गो योगमार्गः, अभिधीयते-निरूप्यते, स्पष्टलिङ्गानि चात्रैव वक्ष्यमाणानि। यथा “किं चान्यद् योगतः स्थैर्य, धैर्यं श्रद्धा च जायते । मैत्री जनप्रियत्वं च, प्रातिभं तत्त्वभासनम् ॥९॥" (श्लोक.५२) इत्यादि ॥३०॥ योगमार्गमेव 'भेदतोऽभिव्यनक्ति
१. भेदस्य स तथा-A; २. योगस्य गोचरादि-AB.C.; ३. क्रमते-A; ४. भेदेनाऽ-A;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org