________________
योगबिन्दु - सूत्र : २५-२६-२७
'प्रत्यक्षेण'- चाक्षुषादिना 'अनुमानेन' - लिङ्गलिङ्गिसम्बन्धग्रहणोद्भवेन, ' यदुक्तो' - यत्र भणितोऽर्थ आत्मादिः, 'न बाध्यते'- न विरोधमानीयते । 'दृष्टः स्वसंवेदनादिसिद्धः । 'अदृष्टेऽपि ' - स्वर्गापवर्गादावर्थे 'किं पुनर्दृष्टे' इत्यपिशब्दार्थः ‘युक्ता’-घटमाना, स्यात् प्रवृत्तिर्हानोपादानरूपा । 'तत एव तु' - तस्मादेव वचनात्, न पुनरन्यतोऽपि, व्यंसकवचनस्य महाऽनर्थहेतुत्वादिति ॥२५ ॥ अत्रैव विपक्षे बाधामाह
१४४
अतोऽन्यथाप्रवृत्तौ तु स्यात् साधुत्वाद्यनिश्चितम् । वस्तुतत्त्वस्य हन्तैवं सर्वमेवासमञ्जसम् ॥ २६ ॥
'अत' उक्तगुणाद्वचनाद् 'अन्यथा तु' यतः कुतोऽपि वचनात् 'प्रवृत्तौ' पुनर्धर्मार्थिनः सत्याम् स्याद् - भवेत् 'साधुत्वादि' - साधुत्वमसाधुत्वं च 'अनिश्चित 'मनिर्धारितम् । कस्येत्याह 'वस्तुतत्त्वस्य' - आत्मादिरूपस्य परिशुद्धवचनपूर्वकत्वाद्वस्तुतत्त्वनिश्चयस्य, तस्य च धर्मार्थिनो यदृच्छावचनपूर्वकतया प्रवृत्तत्वात् । एवमपि किमित्याह 'हन्त' इति पूर्ववत् ' एवं 'वस्तुतत्त्वाऽनिश्चयेन प्रवृतौ, 'सर्वमेव' ऐहिकमामुष्मिकं च 'असमञ्जसं'असङ्गतार्थं स्यात् । न हीहाऽनिश्चितव्यवहारतत्त्वा व्यवहारिणोऽपि किंचित्फलमवाप्नुवन्ति, किं त्वनर्थमेवेति ॥ २६ ॥ तर्हि कथं वस्तुव्यवस्था स्याद्यत्पूर्वकं प्रवृत्तः पुमान्न फलेन वञ्च्येत इत्याह
तद्दृष्टाद्यनुसारेण वस्ततत्त्वव्यपेक्षया ।
तथा तथोक्तिभेदेऽपि साध्वी तत्त्वव्यवस्थितिः ॥२७॥ तत्-तस्माद्‘दृष्टस्य’-प्रत्यक्षोपलब्धस्य आदिशब्दात्तथाविधार्थान्यथानुपपत्तिवशेनानुमितस्य चात्मादेरर्थस्य अनुसारेणानुवर्त्तनेन' यद्वस्तुतत्त्वं' - परिणामित्वादिर्वस्तुस्वभावः, तस्य 'व्यपेक्षा' - आश्रयणरूपा तथा 'साध्वी तत्त्वव्यवस्थितिः' इत्युत्तरेण योगः । ' तथा तथा' - तेन तेन प्रकारेण प्रतिदर्शनं प्रज्ञापनामाश्रित्य, उक्तिभेदेऽपि "पुरुष: क्षेत्रविज्ज्ञानमित्यादि" प्राग्निरूपितरूपे, अपिशब्दात्किं पुनस्तदभेदे 'साध्वी' - अविरुद्धा, 'तत्त्वव्यवस्थिति:' जीवादितत्त्वव्यवस्थारूपा ॥२७॥ कुत एतदेवमित्याह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org