________________
योगबिन्दु-सूत्र : २२-२३-२४-२५
१४३ इति कोमलामन्त्रणे, नेष्टो-नाभिमतः, विपश्चितां-मतिमताम्, कषच्छेदतापशुद्धवस्तुश्रद्धालुत्वात्तेषामिति ॥२२॥ तथा -
वचनादस्य संसिद्धिरेतदप्येवमेव हि ।।
दृष्टेष्टाऽबाधितं तस्मादेतन्मृग्यं हितैषिणा ॥२३॥ वचनाद्-आगमात् अस्य-योगस्य, संसिद्धि:- प्रतीतिर्जायते, न पुनरन्यथा, "परलोकविधौ मानं वचनं', इतिवचनप्रामाण्यात् । यदि नामैवं, 'ततः किमित्याह 'एतदपि वचनं'-किं पुनर्योग इत्यपिशब्दार्थः । एवमेव हि योगवदेव परिणामिन्येवात्मनि घटते, भाषकपरिणामान्तरसम्भवेन वचनप्रवृत्तेरुपपद्यमानत्वात् । तत्तु वचनमनेकमिति हृदि व्यवस्थाप्याह-'दृष्टेष्टाभ्यां'वक्ष्यमाणरूपाभ्यां, अबाधितं-अविरुद्धं, तस्मात्'- योगसिद्धिहेतुत्वात्, एतद्वचनं 'मृग्यं'-गवेषणीयं, हितैषिणा-मनीषिणेति ॥२३॥ आह-किमर्थमीदृशं वचनं मृग्यते ? उच्यते -
दृष्टबाधैव यत्रास्ति ततोऽदृष्टप्रवर्तनम् ।
असच्छूद्धाभिभूतानां केवलं ध्यान्ध्यसूचकम् ॥२४॥ 'दृष्टेनैव'-प्रत्यक्षोपलब्धेनैव द्रव्य रूपत्वावस्थितस्यात्मादेरर्थस्य परिणामेन किं पुनरन्यप्रमाणोपलब्धेनेत्येवकारार्थः, बाधा-विरोध: 'यत्र'शास्त्रे प्रज्ञाप्यमानस्य नित्यत्वादेः, अस्ति-विद्यते ततः-शास्त्रात्, अदृष्टेऽर्थेऽदृष्टफलविषयत्वेन यम-नियमादावनुष्ठाने 'प्रवर्तनम्' असती-असुन्दरा या श्रद्धा-रुचिः भक्षितधत्तूराणामिवेष्टकाखण्डादौ सुवर्णश्रद्धा समाना तयाऽभिभूतानां विह्वलीकृतानाम्, किमित्याह-केवलं-' नापरं किंचित्, 'ध्यान्ध्यसूचकं-' भ्रान्त्याविर्भावकम्, न ततः काचिदिष्टफलसिद्धिरिति भावः ॥२४॥ तर्हि कीदृशाद्वचनात्प्रवृत्तिायसीत्याह -
प्रत्यक्षेणानुमानेन यदुक्तोऽर्थो न बाध्यते । दृष्टोऽदृष्टेऽपि युक्ता स्यात् प्रवृत्तिस्तत एव तु ॥२५॥
१. तथा च-A; तथा वचनेत्यादि B.C; २. तथापि-A; ३. बाध्यसूचकम्-A; ४. रूपतयाव्य A; ५. समानतया-A;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org