________________
१४२
योगबिन्दु-सूत्र : २०-२१-२२ . तर्हि कथं न वृथैष स्यादित्याह-तस्याऽऽत्मनः 'तथायोग्यतायां तु'स्वरूपपररूपापेक्षया सत्त्वाऽसत्वयोग्यतायां सत्यां पुनः किमित्याह तद्भावेन'आत्मनः फलरूपतया परिणामलक्षणेन, 'एष'-योगः, सार्थक:'-'स्वसाध्यनिष्पादक इति । यदा हि स्वरूपेण सन् पररूपेण चासन्नात्मा परिणामी चेष्यते, तदायमवृथा योगः स्यात्, न पुनरन्यथेति ॥२०॥ एवं नित्याऽनित्ये सदसद्रूपे चात्मनि प्रसाधिते यदन्यदपि सिद्धं तद्दर्शयति - . .
दैवं पुरुषकारश्च तुल्यावेतदपि स्फुटम् ।
युज्यते एवमेवेति वक्ष्याम्यूमदोऽपि हि ॥२१॥ 'दैव' पूर्वकृत'कर्म, 'पुरुषकार:'- पुरुषव्यापारः, चकारः समुच्चये । 'तुल्यौ'-समसामर्थ्यो पुरुषार्थसिद्धिं प्रतीति यच्छास्त्रान्तरेषु गीयते 'एतदपि' किं पुनः प्रस्तुतो योग इत्यपिशब्दार्थः 'स्फुटं'-व्यक्तम् 'युज्यते'-घटते एवमेवेत्युक्तनीत्यैव ‘इति:' पादपरिसमाप्तौ । तथा 'वक्ष्यामि'-भणिष्यामि ऊर्ध्वमेतद्ग्रन्थोपरिभागे 'अदोऽपि हि' दैवपुरुषकारतुल्यत्वं, न केवलं प्रस्तुतं योगमित्यपिहिशब्दार्थः ॥२१॥ आह किमर्थं गोचरादिशुद्ध्या योगो मृग्यते इत्याशंक्याह
लोकशास्त्राविरोधेन यद्योगो योग्यतां व्रजेत् ।
श्रद्धामात्रैकगम्यस्तु हन्त नेष्टो विपश्चिताम् ॥२२॥ 'लोकशास्त्रयो' र्लोकप्रतीत्यागमयो: अविरोधेनाऽविघटनेन, यद् यस्माद् 'योगो' वक्तुमुपक्रान्तो 'योग्यतां' फलं प्रति योग्यभावं तात्त्विकं 'व्रजेत्' । न ह्येकान्तेन नित्येऽनित्ये वाऽऽत्मनि योगो युज्यते, आत्मावस्थान्तरतया लोकशास्त्रयोः प्रतीयमानत्वात्तस्य। न च नित्यस्यावस्थान्तरप्रतिपत्तिरस्ति, तस्य सर्वदैकरूपत्वात्, अनित्यस्य च क्षणक्षयित्वेनेति । इति योगस्य गोचरादिशुद्धिरन्विष्यत इति । ननु गोचराद्यशुद्धावपि कपिलादिभिर्योगो निरूप्यमाण उपलभ्यत इत्याशंक्याह-श्रद्धामात्रेण-पूर्वापरविमर्शविकलेन, अत एवैकेन-स्वदर्शनपक्षपातरूपेण, गम्यते-निश्चीयते यः स तथा तुर्विशेषणे 'हन्त'
१. स्वभाव्य-A; २. तं-A; ३. एवमेवोक्तनीत्यैव.-AB.C.; ४. कापि-AB.C.;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org