________________
योगबिन्दु -सूत्र : १८-१९-२०
१४१ इत्यनुवर्तते । शास्ता-जैनानां, वन्द्यः सौगतानां, अविकारी च शैवभागवतानाम् तथा इत्युक्तसमुच्चये, अनुग्राहकस्य तु-अनुग्रहविधातुर्जिनादेः पुनर्नाम इदमुक्तं भवति, इहात्मादीनि योगोप योगादीनि यावन्ति वस्तूनि जैनमते प्रपञ्चितानि तावन्त्येव दर्शनान्तरेष्वपि परं नामभेदेन, न च नामभेदो बाधकः, एकस्याप्यनेक भेदसम्भवात्, किं तु परिणामिन्यात्मनि स्वयोग्यतयैव च कर्मसंयोगं तद्वियोगं चानुभवति सत्यभ्युपगते सर्वदर्शनोक्तो योगो घटते । अतः सर्वैः स तथाभ्युपगन्तव्य इति ॥१८॥ तस्मात्किं सिद्धमित्याह -
साकल्यस्यास्य विज्ञेया परिपाकादिभावतः ।
औचित्याबाधया सम्यग्योगसिद्धिस्तथा तथा ॥१९॥ साकल्यस्यात्मतदन्यसंयोगादिभावलक्षणस्य अस्यानन्तरमेवोपन्यस्तस्य विज्ञेया -बोद्धव्या परिपाकस्य-भव्यत्वपाकरूपस्य, आदिशब्दात्तदन्यसंयोगहासस्य शास्तुरनुग्रहस्य च यो 'भावः' तस्मात्, या औचित्याऽबाधा योग्यप्रवृत्तिलक्षणा तया किमित्याह सम्यग्योगसिद्धि:-निरुपचरितयोगनिष्पत्तिः । तथा तथा-तेन तेनापुनर्बन्धकाधनुष्ठानाराधनारूपेण जायते इति ॥१९॥ किं च - - एकान्ते सति तद्यत्नस्तथाऽसति च यद् वृथा ।
तत्तथायोग्यतायां तु तद्भावेनैष सार्थकः ॥२०॥ इह परमार्थचिन्तायामात्मादयो भावाः स्वरूपेण सन्तः (पररूपेण चाऽसन्तः)। एवं 'एकान्ते सति'-एकान्तेनैव स्वरूपेण पररूपेण चेत्यर्थः, 'सति' विद्यमाने 'आत्मनि' इति गम्यते, तद्यत्न:-योगप्रयत्नः, 'तथा' इति समुच्चये, असति चैकान्तेनैव किमित्याह 'यत्'-यस्मात् वृथा-निरर्थको योगः । तथाहि, यदि योगी सर्वथा सन्नेवाऽभ्युपगम्यते तदा तस्याऽयोगिरूपेणाऽपि सत्त्वात्पररूपप्रवेशेन स्वरूपव्याहतिः स्यात्, तथा च योगिनः स्वरूपाभावाद्योगाभ्यासो निरर्थक एव स्यात्, परकीयाऽयोगेनोपहतत्वात् । एकान्ताऽसत्त्वे त्वात्मनः स्वरूपस्याप्यभावात् को नाम योगाभ्यासवान् तत्फलभोगी च स्यात् । न हि खरविषाणं क्वचित्प्रवर्तते फलं वासादयतीति । १. योगीनि-AB; २. नामसम्भवात्-A: ३. एवं च 'एकान्ते-AB.C.;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org