________________
१४०
योगबिन्दु-सूत्र : १५-१६-१७-१८ मुख्यपूर्वक:-निरुपचरितवस्तुव्यवहारापेक्षः दृष्ट:-उपलब्धः । प्रायोग्रहणं क्वचिद्व्यभिचारार्थं तेन "मेरुमन्थानेन मथितो नीरनिधिः सुरैः" इत्यादयोऽत्यन्तमसम्बद्धाः केचिल्लोकव्यवहारा न मुख्य वस्तुव्यवहारपूर्वकाः, किं तु मिथ्याविकल्पवासनाप्रकोपपूर्वका इति । ततोऽपि-मुख्यपूर्वकत्वादप्युपचारस्य 'किं पुनः प्रामुक्तयुक्तेरि त्यपिशब्दार्थः, अद एतत्स्वयोग्यताया सकाशात्कर्मबन्धादि सर्व-निरवशेषम् इत्थमेव-व्यवस्थापितनीत्यैव व्यवस्थितं-प्रतिष्ठितम् ॥१५।। साम्प्रतमुक्तग्रन्थस्य भावार्थमाविष्करणाय प्राह -
ऐदम्पर्य तु विज्ञेयं, सर्वस्यैवास्य भावतः ।
एवं व्यवस्थिते तत्त्वे योगमार्गस्य सम्भवः ॥१६॥ ऐदम्पर्यं तु - परमार्थः पुनः, विज्ञेयं-अवगन्तव्यं, सर्वस्यैवास्योपन्यस्तग्रन्थस्य कीदृशमित्याह भावतः-परमार्थतः, एवं-उक्तन्यायेन, व्यवस्थिते तत्त्वे-आत्मादौ, योगमार्गस्य-वक्तुमुपक्रान्तस्य,सम्भव:-घटना भवेत्, एवमेव तत्त्वे व्यवस्थिते योगमार्गस्य भावतः सम्भव इत्यैदम्पर्य विज्ञेयमित्यर्थः ॥ १६ ॥ कुत इत्याह -
पुरुषः क्षेत्रविज्ञानमिति नाम यदात्मनः ।
अविद्या प्रकृतिः कर्म तदन्यस्य तु भेदतः ॥१७॥ "पुरुषो" जैनवेदान्तिकानां, क्षेत्रवित्-सांख्यानां, ज्ञानमिति बौद्धानाम् इत्यनेन प्रकारेण नाम-संज्ञा यद्यस्मात्कारणात् आत्मनो-जीवस्य । तथा अविद्या बौद्धवेदान्तिकानां, प्रकृतिः सांख्यानां, कर्म-जैनानाम् । तदन्यस्य तुतस्मादात्मनोऽन्यस्य कर्मणः पुनः 'नाम' इत्यनुवर्तते भेदतो-दर्शनभेदेन ॥१७॥
भ्रान्तिप्रवृत्तिबन्धास्तु संयोगस्येति कीर्तितम् ।
शास्ता वन्द्योऽविकारी च तथानुग्राहकस्य तु ॥१८॥ भ्रान्ति-र्वेदान्तिकसौगतानां, प्रवृत्तिः-सांख्यानां, बन्धः पुनर्जनानां, संयोगस्य-तदन्यसम्बन्धलक्षणस्य, इत्येवं भेदेन कीर्तितम् "नाम"
१. 'वस्तु'-इति शब्द:-AB.C. प्रतिषु नास्ति; २. भावार्थाविष्करणाय-AB.C.; ३. प्रतिष्ठिते तत्त्वे-A;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org