________________
१३९
योगबिन्दु -सूत्र : १३-१४-१५ पुनस्तदभाव इत्यपिशब्दार्थः ॥१२॥ अमुमेवार्थ भावयति -
कर्मणो योग्यतायां हि कर्ता तद्वयपदेशभाक् ।
नान्यथाऽतिप्रसङ्गेन लोकसिद्धमिदं ननु ॥१३॥ कर्मणः-क्रियाविषयस्य सामान्येन मुद्गादेर्वस्तुनो, योग्यतायां-योग्यभावे हि-यस्मात्कारणात् कर्ता-पाचकादिः तद्व्यपदेशभाक् तं पाचकादिरूपं व्यपदेशं भजते यः स तथा । विपक्षे बाधामाह-न-नैव, अन्यथा-अन्येन प्रकारेण कर्मणः पाकादियोग्यताविरहे, कर्ता तव्यपदेशभाक् कथमित्याह अतिप्रसङ्गेन अतिव्याप्तिलक्षणेन, लोकसिद्धं-बालाबलादिजनप्रतीतम् इदं-पूर्वोक्तं वस्तु ननु-निश्चितम् । नास्मिन्नर्थेऽन्यत्प्रमाणं गवेषणीयमिति भावः ॥ १३ ॥ पुनरप्यमुमेवा) पुरस्कृत्याह
अन्यथा सर्वमेवैतदौपचारिकमेव हि ।। . प्राप्नोत्यशोभनं चैतत्तत्त्वतस्तदभावतः ॥ १४ ॥ ___ अन्यथा-स्वयोग्यतामन्तरेणापि कर्मणो यदि कर्ता तद्व्यपदेशभागिष्यते, तदा सर्वमेवैतद्वाह्यमाभ्यन्तरं च कार्यजातं किमित्याह औपचारिकमेवउपचारमात्रोद्भवमेव, हि-स्फुटं, प्राप्नोति-प्रसज्यते माणवकसिंहत्ववत् । यदि नामैवं, तथापि को दोष इत्याह अशोभनं च-अशोभनं पुनः, एतत्सर्वमेवौपचारिकतयाभ्युपगम्यमानम्, कुत इत्याह तत्त्वत: पारमार्थिक्या वृत्त्या, तदभावतः-औपचारिकवस्तुनोऽभावात् ।नयुपचरिता भावा माणवकसिंहतादयः पारमार्थिकं सिंहादिरूपं भजन्ते, एवं मोक्षादयोऽप्यात्मनः स्वयोग्यताया विरहे महेशानुग्रहादेः परैरभ्युपगम्यमाना न पारमार्थिकरूपभाजो भवेयुरिति ॥१४॥ किं च -
उपचारोऽपि च प्रायो लोके यन्मुख्यपूर्वकः ।
'दृष्टस्ततोऽप्यदः सर्वमित्थमेव व्यवस्थितम् ॥ १५ ॥ उपचारोऽपि चोपचरितवस्तुव्यवहाररूप: "किं पुनर्मुख्यो मुख्यपूर्वको व्यवहार' इत्यपिचशब्दार्थः, प्रायो-बाहुल्येन लोके-व्यवहाराहे जने यद्यस्मात्
१. दृष्टोऽप्यदोऽप्यत:-AB.C.; .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org