________________
१३८
योगबिन्दु-सूत्र : १०-११-१२ पुनरुपाधिजन्यं किञ्चिद्रूपम् । इत्येवं-अनेन प्रकारेणात्मस्वभावभवनरूपेण योग्यतायाः 'तथा तत्संयोगोऽपि-कर्मसंयोगः किं पुनर्जीव इत्यपिशब्दार्थः अनादिमान्-प्रवाहापेक्षया 'जीववदादिकालविकलः ॥१०॥ एतदपि कथमित्याह -
योग्यतायास्तथात्वेन विरोधोऽस्यान्यथा पुनः ।
अतीतकालसाधात् किन्वाज्ञातोऽयमीदृशः ॥ ११॥ योग्यताया-उक्तरूपायाः तथात्वेन-जीवस्वभावभूतत्वादनादित्वेन हेतुना, 'अत्रैव विपर्यये दोषमाह-विरोधः विघटमानता, अस्य-बन्धस्य, अन्यथा पुन:
आदिमत्त्वे योग्यताया अभ्युपगम्यमाने सति । तथाहि यद्यादिमती योग्यता, तदा बन्धोऽप्यादिमानेव प्राप्नोति । न चैवं, तस्यानादित्वेन सवैरेवाभ्युपगतत्वात् । तथा शुद्धस्याप्यकस्मादेव कर्मसंयोगाभ्युपगमे सिद्धानामपि तत्प्रसङ्गादनाश्वासः सम्पद्येत इति । तस्माद्योग्यता तदुद्भवश्च बन्धो द्वावप्यनादिमन्तावभ्युपगन्तव्याविति । ननु कृतकत्वेन कथमनादिमत्त्वं बन्धस्य , श्रद्धातुमुचितम् ? सत्यम्, अतीतकालसाधाद्-अतिक्रान्तकालसादृश्येन, किंतु-केवलं, आज्ञात:-आगमात् अयं-कर्मबन्ध: ईदृश:-अनादि: स्यात् । यथा ह्यतीतकालः प्रतिक्षणमपरापररूपेण भूतोऽपि प्रवाहापेक्षयानादिः तथा बन्धोऽपि जिनवचनप्रामाण्यादवगन्तव्य इति ॥ ११॥ अथ प्रपञ्चतो महेशानुग्रहान्मोक्ष इति निराकुर्वनाह -
अनुग्रहोऽप्यनुग्राहयोग्यतापेक्ष एव तु ।
नाणुः कदाचिदात्मा स्याद् देवतानुग्रहादपि ॥१२॥ अनुग्रहोऽपि-महेशकृत: किं पुनः शेषक्रियाविशेष इत्यपिशब्दार्थः, अनुग्राह्यस्य-अनुग्रहविषयस्य जन्तोः, योग्यतापेक्ष एव तु-योग्यतामेवाऽपेक्ष्य न पुनरन्यथा । अमुमेवार्थं प्रतिवस्तूपमया भावयति, न-नैव, अणु:पुद्गलविशेषः, कदाचित्-क्वापि काले, आत्मा-जीवः, स्यात् । कुतोऽपीत्याह देवतानुग्रहादपि-देवताया दिव्यविशेषरूपाया अनुग्रहः-प्रसादः, तस्मादपि किं
१. 'तथा'-AB प्रत्योः नास्ति; २. ऽतीतवदा-A; ३. सम्पद्यत-ABC%;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org