________________
योगबिन्दु-सूत्र : ८-९-१०
१३७ केवलस्य-तदन्याऽदृष्टादिविकलस्य, आत्मनो-जीवस्य, न्यायाधुक्तिमात्, सदा 'सर्वकालमपि आत्मत्वस्य-स्वरूपमात्ररूपस्य अविशेषतो विशेषकारणकर्मसंयोगादेरनभ्युपगमात् । किमित्याह 'संसारी-मुक्त' इत्येतत् पूर्वमेव प्रपञ्चितं, द्वितयं-आत्मावस्थाद्वयलक्षणं वस्तु कल्पनैव स्वविकल्परूपैव केवला । हि-स्फुटम् । न पुनर्वस्त्वपि तथा वर्तत इति ॥ ८॥ एतदेव दृष्टान्तोपन्यासेन भावयन्नाह
काञ्चनत्वाऽविशेषेऽपि यथा सत्काञ्चनस्य न ।
शुद्धयशुद्धी ऋते शब्दात्तद्वदत्राप्यसंशयम् ॥९॥ काञ्चनत्वस्य-सुवर्णभावस्य, अविशेषेऽप्यभेदेऽपि, भेदे पुनर्भवत एवेत्यपिशब्दार्थः, यथा इति दृष्टान्तार्थः, सत्काञ्चनस्य-सर्वमलविकलस्य कल्याणनाम्नो हेम्नः किमित्याह न-नैव, शुद्ध्यशुद्धी-निर्मलतामलिनतारूपे स्याताम् । कि सर्वथा नेत्याह ऋते-विना, शब्दात्-वाचकाद्विकलपुरुषप्रयुक्तात्, तद्वत्"सत्काञ्चनशुद्ध्यशुद्धिवत्, अत्रापि केवल आत्मन्यभ्युपगते, किं पुनः सत्काञ्चन इत्यपिशब्दार्थः, असंशयं-असन्देहम् ऋते शब्दात्संसारित्वमुक्तत्वे न भवेतामिति ॥९॥ ___ ननु यत्प्राक्तदन्यदुक्तं तत्किल कर्म, तच्च क्रियमाणत्वेनावश्यं कर्तारमात्मानमपेक्षते, स च कर्मणः प्रागेव सिद्धरूपोऽभ्युपगन्तव्यः, समकालभाविनो: सव्येतरगोविषाणयोरिव कार्यकारणभावाभावाद् इति कथं तस्य स्वरूपमात्रस्थितस्यात एव शुद्धरूपस्य प्रथमः कर्मसंयोगः संसारित्वहेतुरित्याशंक्याह
योग्यतामन्तरेणास्य संयोगोऽपि न युज्यते ।
सा च तत्तत्त्वमित्येवं तत्संयोगोऽप्यनादिमान् ॥ १०॥ योग्यतां-कर्मसंयोगानुकूलपरिणतिरूपां अन्तरेण-विना अस्याऽऽत्मनः संयोगोऽपि-कर्मणा सह सम्बन्धः, किं पुनः कर्मसंयोगाभावे संसारित्वमित्यपिशब्दार्थः, न युज्यते-न घटत एव । यदि नामैवं ततः किमित्याह सा च-सा पुनर्योग्यता, तत्तत्त्वं-तस्यात्मनस्तत्त्वं स्वभाव भूतत्वं वर्तते, न
१. आकालमपि-AB.C.; २. अविशेषात्-AB.C.; ३. सत्काञ्चनस्य शुद्ध्य-A४. भूता-AB.C:;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org