________________
योगबिन्दु - सूत्र : ६-७-८
अथ यथोद्देशं निर्देशाद् गोचरादिशुद्धिमेव भावयतिआत्मा तदन्यसंयोगात्संसारी तद्वियोगतः । स एव मुक्त एतौ च तत्स्वाभाव्यात्तयोस्तथा ॥६॥ आत्मा-जीवः तदन्यसंयोगात् तस्मादात्मनोऽन्येन कर्मणा सम्बन्धात् किमित्याह संसारी - नारकादिपर्यायवान् । तथा तद्वियोगतः - तदन्यविरहात् । स एव यो द्रव्यरूपतयात्मा संसारी न पुनरन्यः मुक्तो - मोक्षभाक् । एतौ च संसारमोक्षौ पुनः तत्स्वाभाव्यात्संसारहेतु'र्मोक्षहेतुश्च स्वभावो ययोस्तौ तथा तद्भावस्तस्मात् तयोस्तदन्यसंयोगवियोगयोः, तथा इति वक्तव्यान्तरसमुच्चयार्थः ॥६॥ एतदेवाह
१३६
अन्यतोऽनुग्रहोऽप्यत्र तत्स्वाभाव्यनिबन्धनः । अतोऽन्यथा त्वदः सर्वं न मुख्यमुपपद्यते ॥७॥ "महेशानुग्रहाद्बोधनियमौ " इतिवचनाद् अन्यतो- महेशात्, अनुग्रहोऽ -प्युपकारोऽपि शुद्धज्ञानक्रियालाभलक्षणः, किं पुनः पूर्वोक्तौ संसारापवर्गों इत्यपिशब्दार्थः, अत्र - योगचिन्तायाम् किमित्याह तत्स्वाभाव्यनिबन्धनः- स महेशानुग्रहयोग्यः स्वभावो यस्य स तथा तद्भावस्तत्स्वाभाव्यम्; तन्निबन्धनं हेतुर्यस्य स तथा । विपर्यये बाधामाहं अतः - तत्स्वाभाव्यात्, अन्यथा तुअन्येन प्रकारेण पुनः केवल महेशानुग्रहादिरूपेण, अदः - संसारित्वादि, सर्वं - कृत्स्नं, न- नैव, मुख्यं - अनुपचरितं, उपपद्यते घटते । यथा हि कर्पासादिः स्वभावत एवाऽयोग्यो लाक्षारसादिना रज्यमानोऽपि न तात्त्विकं रागं प्रतिपद्यते किंतु रागाभासमेव, एवमात्मनां योग्यताविरहे महेशेन क्रियमाणाव- प्यनुग्रहनिग्रहौ न तात्त्विकौ स्यातामिति तत्स्वाभाव्यमवश्यमभ्युपगन्तव्यम् । तदभ्युपगमे च तत एव संसारमोक्षोपपत्त्या न किंचिन्महेशानुग्रहादिना प्रयोजनमस्तीति सिद्धं “ आत्मा तदन्यसंयोगात्संसारी" (श्लोक - ६ ) इत्यादि ॥ ७ ॥ इत्थं महेशवादिमतमपास्यात्रैव पुरुषाद्वैतमतमपाकु र्वन्नाह -
केवलस्यात्मनो न्यायात्सदात्मत्वाविशेषतः । संसारी मुक्त इत्येतद् द्वितयं कल्पनैव हि ॥ ८ ॥
१. संयोगात् - A; २. संसारी - नरनारका - A; ३. मुक्ति - B. C; ४. केवलं - A;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org