________________
योगबिन्दु - सूत्र : ४-५
साध्यस्य योगाभ्यासनिष्पाद्यस्य-मोक्षस्याभेदादेकरूपत्वात् । सकलकर्मक्लेशक्षयलक्षणो हि मोक्षः, न तत्र कश्चिद् भेद इति । एवं सति यत्सिद्धं तदाह - तथाभावे तु मोक्षाभेदभावे पुनः सति, उक्ति भेदः - योगशास्त्रेष्वात्मादीनां योगा (ङ्गा) नां यो भणितः स न कारणं हेतुर्योगभेदस्य । न हि नाममात्रभेदेन भावा भिद्यन्ते, एकस्यापि शक्रादेरनेकेन नाम्ना व्यवह्रियमाणत्वात् ॥३॥ अथात्रैव विशेषमाह " मोक्षहेतुत्वं' इत्यादि
मोक्षहेतुत्वमेवास्य किन्तु यत्नेन धीधनैः ।
सद्गोचरादिसंशुद्धं मृग्यं स्वहितकाङ्क्षिभिः ॥४ ॥ मोक्षहेतुत्वमेव मोक्षनिमित्तभाव एवं नापरं किञ्चित्, अस्य योगस्य, किन्तु केवलं, यत्नेना-ऽऽदरेण, धीधनैः - बुद्धिमद्भिः 'मृग्यम्' इत्युत्तरेण योगः । कीदृशमित्याह सताऽनुपचरितेन, गोचरादिनाऽनन्तरमेव दर्शयिष्यमाणेन, संशुद्धम् - अनवद्यम् मृग्यं - आत्मादौ मोक्षहेतुर्योग युज्यते न वा इत्येवंरूपेण निपुणोहापोहयोगेन गवेषणीयं कीदृशैः, ? स्वहितकांक्षिभिः - आत्मकल्याणचिन्तकैः । योगवञ्चनायां हि सर्वपुरुषार्थवञ्चना नियमात्सम्पद्यते
। यदवाचि “ एसो य उत्तमो जं, पुरिसत्थो एत्थ वञ्चिओ नियमा । वञ्चिज्जइ सव्वेसुं, कल्लाणेसुं न संदेहो ( पंचवस्तु - १०२५)” ॥ ४ ॥ अथ कस्मादस्य गोचरादिशुद्धिः मृग्यत इत्याशंक्याह
१३५
--
गोचरश्च स्वरूपं च फलं च यदि युज्यते । अस्य योगस्ततोऽयं यन्मुख्यशब्दार्थयोगतः ॥५ ॥ गोचरो - त्रिषयः परिणामिजीवलक्षणः स्वरूपं - सर्वार्थेषूचितप्रवृत्तिलक्षणम् फलं-मोक्षात्मकम् । चकारा उक्तसमुच्चये, 'यदि' इत्यभ्युपगमे, युज्यते - घटते अस्य - योगस्य, योगः ततो गोचरादियोगात् अयं वस्तुतो यद्यस्मात्तत् स्यात् । एतदपि कुत इत्याह- मुख्यस्याऽनुपचरितस्य, शब्दार्थस्य'मोक्षेण योजनाद्योग' इत्येवंलक्षणस्य योगतो - घटनात् ॥५॥
૧૧
१. 'मोक्षहेतुत्वं' इत्यादि - ABC प्रतिषु नास्ति; २. मृग्यं कीदृशै - A; कीदृशे - B, कीदृशो - C ३. कीदृशैः इति - ABC प्रतिषु नास्ति; ४. पुरुषस्य सर्वपुरुषार्थेषु वञ्चना - A
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org