________________
१३४
___ योगबिन्दु-सूत्र : २-३ (अविरोधेन) अविघटनेनोपलक्षितम् । तत्त्वतः-ऐदम्पर्यालोचनेन, न पुनः शाब्दन्यायेनापि, तस्य प्रतिदर्शनमन्यथाऽन्यथाप्रवृत्तत्वात् । पठ्यते चप्रशान्तवाहितासंज्ञं विसभागपरिक्षयम् । शिववर्त्म झवाध्वेति, योगिभिर्गीयते ह्यदः ॥१॥ (यो. इ. स. १७६) इति ॥ तथा सन्नीत्या-अन्वयव्यतिरेक शुद्धयुक्तिरूपया स्थापकमविसंवादापादनेन प्रतिष्ठाकारि सर्वयोगशास्त्राणामेव, 'चैव' इति समुच्चये ।
ननु योगशास्त्रकाराणां निजनिजमतात्यन्ताभिनिवेशेन विप्रतिपन्नत्वात्कथं सर्वयोगशास्त्राणां संस्थापकमिदं प्रकरणं स्यादित्याशङ्कयाऽऽहमध्यस्थान् स्वदर्शनराग-परदर्शनद्वेषयोर्मध्यभागवर्तिनः, . तद्विदःयोगशास्त्रविदः श्रोतृन् 'प्रति' इति “स्वदर्शनं प्रतीत्य, अमध्यस्थेषु श्रोतृषु वस्तुस्थापनायोगात् । तथा चोक्तम्-“आग्रही बत निनीषति युक्तिं, तत्र यत्र मतिरस्य निविष्टा । पक्षपातरहितस्य तु युक्तिर्यत्र तत्र मतिरेति निवेशम्" ॥१॥ इति ॥ आद्यन्तविनिर्मुक्तं इति च विशेषणं शिवसन्तानापेक्षम्, न पुनरेक: कश्चिदनादिशुद्धः शिवः समस्ति, तस्य शास्त्रान्तरे महता प्रबन्धेन प्रतिषिद्धत्वात् । अत्र च 'नत्वा शिवं' इत्यनेन विघ्नापोहहेतुशास्त्रमूलमङ्गलमुक्तम् । 'योगबिन्दु' इत्यनेन प्रेक्षावत्प्रवृत्त्यर्थमभिधेयम् । 'तत्त्वसिद्ध्यै' इत्यनेनानन्तरप्रयोजनम् । 'महोदयं' इत्यनेन तु परम्पराप्रयोजनमभिहितम् । अभिधानाभिधेयलक्षणश्च सम्बन्धः स्वयमेव वाच्य इति ॥२॥ सर्वेषां योगशास्त्राणामविरोधेन इत्युक्तम्, अथ तमेव भावयत्राह
मोक्षहेतुर्यतो योगो भिद्यते न ततः कचित् ।।
साध्याभेदा थाभावे तूक्तिभेदो न कारणम् ॥३॥ मोक्षहेतुः-निवृत्ति(वृति)निमित्तं, यतो-यस्मात्कारणात् योगः सर्वैर्योगशास्त्रकारैः सङ्गीयते, भिद्यते-भेदमनुभवति न-नैव, ततोमोक्षहेतुत्वाद्धेतोः, क्वचिद्योगशास्त्रे । एतदपि कुत इत्याह साध्याऽभेदात्
१. क्षयः - AB; २. शुद्धि-A; ३. शास्त्राणां-A; ४. मत्या-A; ५. 'स्वदर्शन' इति A प्रती नास्ति;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org