________________
१३३
॥ ओ अहँ नमः ॥ श्रीमद्धरिभद्रसूरिप्रणीतः श्रीमुनिचंद्रसूरिविरचितवृत्तिसमलकृतः
योगबिन्दुः
सद्योगचिन्तामणितोऽनणीयो । येनाधिजग्मे जगतः पतित्वम् ॥ स योगिवृन्दारकवन्दनीयो । द्यतादवद्यानि घनं जिनो नः ॥१॥ सुधाबिन्दोरिवानन्दममन्दमुपचिन्वतः । योगबिन्दोः समासेन, वृत्तिरेषा विधीयते ॥२॥ गुरूपदेशो न च तादृगस्ति, मतिर्न वा काचिदुदाररूपा ।
तथापि योगप्रियतावशेन, यत्नस्तदभ्यासकृते ममायम् ॥३॥ तस्य चेदमादिसूत्रं "नंत्वा" इत्यादि श्लोकद्वयम् -
नत्वाद्यन्तविनिर्मुक्तं शिवं योगीन्द्रवन्दितम् । योगबिन्दुं प्रवक्ष्यामि तत्त्वसिद्धयै महोदयम् ॥१॥ सर्वेषां योगशास्त्राणामविरोधेन तत्त्वतः । ।
सन्नीत्या स्थापकं चैव मध्यस्थांस्तद्विदः प्रति ॥२॥ ... नत्वा-ऽभिवन्द्य, आदि:-प्रथमभावः, अन्त:-पर्यवसानं, ताभ्यां विनिर्मुक्तं-विरहितम् कमित्याह शिवं-सकलोपप्लवकलाविकलं देवताविशेषम् । कीदृशमित्याह योगीन्द्रवन्दितं-गणधरादिमहामुनिनमस्कृतम्, किमित्याह योगबिन्दु-योगस्य मोक्षहेतोरनुष्ठानस्य बिन्दुरवयवो योगबिन्दुः, तत्प्रतिपादक तया प्रकरणमपि योगबिन्दुरुच्यते ततो योगबिन्दुनामकं प्रकरणं प्रवक्ष्यामिअभिधास्ये । किमर्थमित्याह तत्त्वसिद्ध्यै-आत्मादितत्त्वप्रतीतिनिमित्तम् । पुनरपि कीदृशं योगबिन्दुमित्याह महोदयं-महान्-प्रशस्य उदयो निःश्रेयसाभ्युदयसंसिद्धिरूपो यस्मात् स तथा तम् ॥१॥ पुनरपि कीदृशं योगबिन्दुमित्याह सर्वेषां-कपिलसुगतादिप्रणीतयोगशास्त्राणां-अध्यात्मग्रन्थानां अविरोधिनां
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org