________________
१३० योगदृष्टिसमुच्ययः सूत्र - २१९-२२०-२२१-२२२-२२३
सद्भिः कल्याणसम्पन्नैर्विशिष्टपुण्यवद्भिः दर्शनादपि पावनैरवलोकनेनापि पवित्रैः तथा-तेन प्रकारेण गुणवत्तया विपर्ययाभावेन दर्शनं-तथादर्शनम्, ततस्तेन यो योगः-सम्बन्धस्तैः सह स आद्यावञ्चक इष्यते सद्यो(गा)ऽवञ्चक इत्यर्थः ॥२१९॥
तेषामेव प्रणामादिक्रियानियम इत्यलम् ।
क्रियावञ्चकयोगः स्यान्महापापक्षयोदयः ॥२२०॥ तेषामेव-सतां प्रणामादिक्रियानियम इत्यलम् क्रियावञ्चकयोगः स्याद्भवेदिति । अयं च महापापक्षयोदयो-नीचैर्गोत्रकर्मक्षयकृदिति भावः ॥२२० ॥
फलावञ्चकयोगस्तु सद्भय एव नियोगतः । ।
सानुबन्धफलावाप्तिधर्मसिद्धौ सतां मता ॥२२१॥ फलावश्चकयोगस्तु चरमो योगोत्तमः किम्भूत इत्याह सद्भय एव अनन्तरोदितेभ्यः नियोगत:-अवश्यंतया, सानुबन्धफलावाप्ति:-तथा सदुपदेशादिना, धर्मसिद्धौ विषये सतां मता इति ॥२२१ ॥ एवमेषां स्वरूपमभिधाय प्रकृतयोजनमाह
कुलादियोगिनामस्मात् मत्तोऽपि जडधीमताम् ।
श्रवणात्पक्षपातादेरुपकारोऽस्ति लेशतः ॥२२२॥ कुलादियोगिनामुक्तलक्षणानां, अस्माद्योगदृष्टिसमुच्चयात्, मत्तोऽपि सकाशात् जडधीमतामन्येषाम् किमित्याह श्रवणात्-श्रवणेन, पक्षपातादेः पक्षपातशुभेच्छादेः, उपकारोऽस्ति लेशतः तथा बीजपुष्टा(ष्ट्या) ॥२२२॥ कः पक्षपातमात्रादुपकार इत्याशङ्कापोहायाह
तात्त्विकः पक्षपातश्च, भावशून्या च या क्रिया ।
अनयोरन्तरं ज्ञेयं, भानुखद्योतयोरिव ॥२२३॥ तात्त्विक: पक्षपातश्च पारमार्थिक इत्यर्थः भावशून्या प्रति (च या) क्रिया 'अनयोरन्तरं ज्ञेयं' कयोरिवेत्याह भानुखद्योतयोरिव महदन्तरमित्यर्थः ॥२२३॥ तथा चाह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org