________________
योगदृष्टिसमुच्ययः सूत्र - २१४-२१५-२१६-२१७-२१८-२१९ १२९ सर्वतन्त्रसाधारणत्वेन, यमा-उपरमा:, सतां-मुनीनाम् इति, किम्पर्यन्ता इत्याह अपरिग्रहपर्यन्ताः । “अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः" (२-३० पा.) इति वचनात् । तथेच्छादिचतुर्विधाः प्रत्येकमिच्छायमाः प्रवृत्तियमाः स्थिरयमाः सिद्धियमा इति ॥२१४॥ एतेषां विशेषलक्षणमाह
तद्वत्कथाप्रीतियुता तथाऽविपरिणामिनी ।।
यमेष्विच्छाऽवसेयेह प्रथमो यम एव तु ॥२१५॥ तद्वत्कथाप्रीतियुता-यमवत्कथाप्रीतियुता तथाऽविपरिणामिनी-तद्भावस्थिरत्वेन, यमेषूक्तलक्षणेषु इच्छा अवसेयेह ''यमचक्रे इयं च 'प्रथमो यम एव तु' अनम्तरोदितलक्षणेच्छैवेच्छायम इति कृत्वा ॥२१५॥ तथा
सर्वत्र शमसारं तु यमपालनमेव यत् ।
प्रवृत्तिरिह विज्ञेया द्वितीयो यम एव तत् ॥२१६॥ सर्वत्र-सामान्येन शमसारं-तूपशमसारमेव यत्क्रियाविशिष्टं यमपालनं, प्रवृत्तिरिह विज्ञेया यमेषु, द्वितीयो यम एव तत्-प्रवृत्तियम इत्यर्थः ॥२१६ ॥
विपक्षचिन्तारहितं यमपालनमेव यत् ।
तत्स्थैर्यमिह विज्ञेयं तृतीयो यम एव हि ॥२१७॥ विपक्षचिन्तारहितमतिचारादिचिन्तारहितमित्यर्थः यमपालनमेव यद्विशिष्टक्षयोपशमवृत्त्या तत्स्थैर्यमिह विज्ञेयं यमेषु, एतच्च तृतीयो यम एव हि स्थिरयम इति योऽर्थः ॥२१७॥
परार्थसाधकं त्वेतत्सिद्धिः शुद्धान्तरात्मनः ।
अचिन्त्यशक्तियोगेन चतुर्थो यम एव तु ॥२१८॥ परार्थसाधकं त्वेतद्यमपालनं सिद्धिरभिधीयते । एतच्च शुद्धान्तरात्मनो नान्यस्य, अचिन्त्यशक्तियोगेन तत्सन्निधौ वैरत्यागादितः । एतच्चतुर्थो यम एव तु सिद्धियम इति भावः ॥२१८॥ अवञ्चकस्वरूपमाह
संद्भिः कल्याणसम्पनैर्दर्शनादपि पावनैः ।
तथा दर्शनतो योग आद्यावञ्चक उच्यते (इष्यते) ॥२१९॥ १. यमचयचक्रे - भ. । .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org