SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १२८ योगदृष्टिसमुच्ययः सूत्र - २१०-२११-२१२-२१३-२१४ ये योगिनां कुले जातास्तद्धर्मानुगताश्च ये । . . . कुलयोगिन उच्यन्ते गोत्रवन्तोऽपि नापरे ॥२१०॥ ये योगिनां कुले जाता-जन्मनैव, तद्धर्मानुगताश्च-योगिधर्मानुगताश्च, ये प्रकृत्यान्येऽपि, कुलयोगिन उच्यन्ते इति गम्यते द्रव्यतो भावतश्च । गोत्रवन्तोऽपिसामान्येन भूमिभव्या अपि नापरे-कुलयोगिन इति ॥२१०॥ एतद्विशेषलक्षणमधिकृत्याह सर्वत्राऽद्वेषिणश्चैते गुरुदेवद्विजप्रियाः । दयालवो विनीताश्च बोधवन्तो यतेन्द्रियाः ॥२११॥ सर्वत्राऽद्वेषिणश्चैते-तथाऽऽग्रहाऽभावेन, तथा गुरुदेवद्विजप्रिया-धर्मप्रभावात् तथा दयालव:-प्रकृत्या कृिष्टपापाभावेन, विनीताश्च, कुशलानुबन्धिभव्यतया । तथा बोधवन्तो-ग्रन्थिभेदेन, यतेन्द्रियाश्चारित्रभावेन ॥२११॥ प्रवृत्तचक्रास्तु पुनर्यमद्वयसमाश्रयाः । शेषद्वयार्थिनोऽत्यन्तं शुश्रूषादिगुणान्विताः ॥२१२॥ प्रवृत्तचक्रास्तु पुनः, किंविशिष्टा भवन्तीत्याह यमद्वयसमाश्रयाः-इच्छायमप्रवृत्तियमाश्रया इत्यर्थः, शेषद्वयार्थिन:-स्थिरयमसिद्धियमद्वयार्थिन इत्युक्तं भवति, अत्यन्तं-सदुपायप्रवृत्त्येति, अत एवाह शुश्रूषाश्रवणग्रहणधारणविज्ञानोहापोहतत्त्वाभिनिवेशगुणयुक्ताः ॥२१२ ॥ तथा आद्यावञ्चकयोगाप्त्या तदन्यद्वयलाभिनः । एतेऽधिकारिणो योगप्रयोगस्येति तद्विदः ॥२१३॥ आद्यावञ्चक(योगावञ्चक)योगाप्त्या हेतुभूतया, तदन्यद्वयलाभिन:क्रियावञ्चकफलाऽवञ्चकद्वयलाभिनः, तदवन्ध्यभव्यतयैवम्भूताः, (एते) किमित्याह अधिकारिणः, कस्येत्याह योगप्रयोगस्याधिकृतस्य, इत्येवं तद्विदोयोगविदः 'अभिदधति' इति शेषः ॥२१३॥ उपन्यस्तयमादिस्वरूपमाह इहाऽहिंसादयः पञ्च सुप्रसिद्धा यमाः सताम् । अपरिग्रहपर्यन्तास्तथेच्छादिचतुर्विधाः ॥२१४॥ इह लोके, अहिंसादयो धर्माः पञ्च संख्यया सुप्रसिद्धाः Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004175
Book TitleHaribhadra Yogbharti
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2009
Total Pages346
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy