________________
योगदृष्टिसमुच्ययः सूत्र - २०६-२०७-२०८-२०९ १२७ क्षीणव्याधिर्यथा लोके व्याधिमुक्त इति स्थितः ।
'भवरोग्येव तु तथा मुक्तस्तन्त्रेषु तत्क्षयात् ॥२०६॥ क्षीणव्याधिः-पुरुष: यथा लोकेऽविगानेन व्याधिमुक्त इति तत्तदभावेन स्थितो न स्थापनीय: भवरोग्येव-रेन मुख्यतद्भावेन तथा मुक्तः-भवव्याधिमुक्तः, तन्त्रेषु स्थितः । तत्क्षयादिति भवरोगक्षयादित्यर्थः ॥२०६ ॥ एवं प्रकृतमभिधाय सर्वोपसंहारमाह
अनेकयोगशास्त्रेभ्य: संक्षेपेण समुद्धृतः ।
दृष्टिभेदेन योगोऽयमात्मानुस्मृतये परः ॥२०७॥ अनेकयोगशास्त्रेभ्यः-पातञ्जलादिभ्यः, संक्षेपेण-समासेन, समुद्धृतस्तेभ्यः पृथक्कृतः नवनीतमिव क्षीरादिति । केन क इत्याह दृष्टिभेदेनउक्तलक्षणेन योगोऽयं अधिकृत एव । किमर्थमित्याह आत्मानुस्मृत्यर्थं पर:प्रधानो योग इति ॥२०७॥ प्रयोजनान्तरमप्याह
कुलादियोगिभेदेन, चतुर्धा योगिनो यतः । .. अतः परोपकारोऽपि, लेशतो न विरुध्यते ॥२०८॥ .. कुलादियोगिभेदेन-येऽत्र(गोत्र) कुलप्रवृत्तचक्रनिष्पन्नयोगलक्षणेन चतुर्धाचतुष्प्रकारा योगिनो यतः सामान्येन अतः किमित्याह परोपकारोऽपि तथाविधकुलादियोग्यपेक्षया लेशतो न विरुध्यते, मनागतोऽपि योगपक्षपातादिभावात् ॥२०८॥ तदत्र
कुलप्रवृत्तचक्रा ये त एवास्याधिकारिणः ।
योगिनो न तु सर्वेऽपि तथाऽसिद्धयादिभावतः ॥२०९॥ कुलप्रवृत्तचक्रा-ये कुलयोगिनः प्रवृत्तचक्राश्च य इत्यर्थः, एते चास्ययोगशास्त्रस्य अधिकारिणोऽर्हाः, योगिनो न तु सर्वेऽपि सामान्येन । कुत इत्याह तथा-तेन प्रकारेण, असिद्ध्यादिभावतः-गोत्रयोगिनामसिद्धिभावात्, आदिशब्दात्तु निष्पत्रयोगिनां तु सिद्धिभावादिति ॥२०९ ॥ एतद्विशेषलक्षणमाह
१. भवरोगे च तु-पा। २. भवरोगे च -पा ३. भवरोगे च -पा ४. तथाव्याधिमुक्तवत् मुक्तः -पा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org