________________
-
१२६
योगदृष्टिसमुच्ययः सूत्र - २०२-२०३-२०४-२०५
अवस्था तत्त्वतो नो चेननु तत्प्रत्ययः कथम् ।
भ्रान्तोऽयं किमनेनेति मानमत्र न विद्यते ॥२०२॥ अवस्था तत्त्वतः-परमार्थेन, नो चेत्पूर्वापरभावेन तदाशङ्कयाह ननु तत्प्रत्ययः-अवस्थाप्रत्ययः कथं-निबन्धनाभावेन । स्यादेतत्-तद्भ्रान्तोऽयमवस्थाप्रत्यय: तत्किमनेनेत्येतदाशङ्कयाह-'मानमत्र' भ्रांन्ततायां न विद्यते ॥२०२॥
योगिज्ञानं तु मानं चेत्तदवस्थान्तरं तु तत्।
ततः किं भ्रान्तमेतत्स्यादन्यथा सिद्धसाध्यता ॥२०३॥ योगिज्ञानं तु-योगिज्ञानमेव प्रमाणं चेदत्र एतदाशङ्कयाह तदवस्थान्तरं तु-योग्यवस्थान्तरमेव, तत्-योगिज्ञानम् । ततः किमित्येतदाशङ्कयाह भ्रान्तमेतत्स्यात्-योगिज्ञानं, अन्यथा अभ्रान्तत्वेऽस्य किमित्याह सिद्धसाध्यताअवस्थाभेदोपपत्तेरिति ॥२०३ ॥ उक्तमानुषङ्गिकं, प्रकृतं प्रस्तुमः, तच्च सिद्धस्वरूपं 'व्याधिमुक्तः पुमान् लोके' (श्लो. १८७), इत्याधुपन्यासात्, तत्र
व्याधितस्तदभावो वा तदन्यो वा यथैव हि ।
व्याधिमुक्तो न सन्नीत्या कदाचिदुपपद्यते ॥२०४॥ व्याधित:-सञ्जातव्याधिरेव, तदभावो वा, तदन्यो वा व्याधितादन्यो वा तत्पुत्रादिः, यथैव हि व्याधिमुक्तो न त्रयाणामेकोऽपि, सन्नीत्या-सन्यायेन, कदाचिदुपपद्यत इति दृष्टान्तः ॥२०४॥ दार्टान्तिकयोजनमाह
संसारी तदभावो वा तदन्यो वा तथैव हि ।
मुक्तोऽपि हन्त नो मुक्तो, मुख्यवृत्त्येति तद्विदः ॥२०५॥ संसारी-पुरुषः तदभावो वा-पुरुषाभावमात्रमेव तदन्यो वैकान्तलक्षण: तथैव हि यथा दृष्टान्ते किमिवेत्याह 'मुक्तोऽपि हन्त नो मुक्तो' मुख्यवृत्त्या त्रयाणामपि तत्प्रवृत्तिनिमित्ताभावात्, इति तद्विदः-'मुक्तविद इत्थमभिदधतीति ॥२०५॥ कथं तर्हि मुक्तव्यवस्थेत्याह
१. मुक्तिविदः - पा. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org