________________
योगदृष्टिसमुच्ययः सूत्र
१९७-१९८-१९९-२००-२०१
१२५
तदस्थितिविरोधादिति' युक्तिः । इत्येवं सतोऽसत्त्वं व्यवस्थितम् । ततश्च 'सतोऽसत्त्वे' इत्याद्यनुवर्त्तते एवेति ॥१९७॥ नित्यपक्षमधिकृत्याह
-
भवभावानिवृत्तावप्ययुक्ता मुक्तकल्पना ।
एकान्तैकस्वभावस्य न ह्यवस्थाद्वयं क्वचित् ॥१९८॥
भवभावानिवृत्तावप्येकान्तनित्यतायाम् किमित्याह अयुक्तां मुक्तकल्पना आत्मनः । कथमयुक्तेत्याह एकान्तैकस्वभावस्य - अप्रच्युतानुत्पन्नस्थिरैकस्वभावतायाः, न हि यस्मात् अवस्थाद्वयं संसारिमुक्ताख्यं क्वचित्, एकान्तैकस्वभावत्वविरोधात् ॥ १९८ ॥
तदभावे च संसारी मुक्तश्चेति निरर्थकम् ।
तत्स्वभावोपमर्दोऽस्य नीत्या तात्त्विक इष्यताम् ॥ १९९॥ तदभावे चाऽवस्थाद्वयाभावे च संसारी - तिर्यगादिभाववान्, मुक्तोभवप्रपञ्चोपरमादित्येतत् निरर्थकं - शब्दमात्रमेव च, अर्थायोगादिति । तत्तथा स्वभावोपमर्दस्तदन्तरेण तदन्तरापनयनलक्षणः अस्यात्मनः नीत्या - न्यायेन । किमित्याह तात्त्विक इष्यतां - पारमार्थिकोऽभ्युपगम्यतामिति ॥ १९९ ॥
-
दिदृक्षाद्यात्मभूतं तन्मुख्यमस्य निवर्तते ( अतिवर्तते ) । प्रधानादिनतेर्हेतुस्तदभावान्न तन्नतिः ॥ २००॥
दिदृक्षाऽविद्यामलभवाधिकारादि, आत्मभूतं सहजं वस्तुसत् । तत्तस्मात्, मुख्यमनुपचरितमेव, अस्यात्मनो निवर्तत अतिवर्तत इति । किम्भूतं तदित्याह प्रधानादिनते:- प्रधानमायादिपरिणते:, हेतुः कारणम् । तदभावाद्दिदृक्षाद्यभावात्, न तन्नतिर्न प्रधानादिपरिणतिर्मुक्तात्मन इति ॥ २०० ॥
अन्यथा स्यादियं नित्यमेषा च भव उच्यते ।
एवं च भवनित्यत्वे कथं मुक्तस्य सम्भवः ॥ २०१ ॥ इत्थं चैतदङ्गीकर्तव्यं, अन्यथैवमनभ्युपगम्यमाने स्यादियं-प्रधानादिनतिः
नित्यं सदैव । ततः किमित्याह एषा च- प्रधानादिनतिः, भव उच्यतेसंसारोऽभिधीयते एतन्त्रतौ तदात्मकमहदादिभावात् । एवं चोक्तनीत्या भवनित्यत्वे सति कथं मुक्तस्य सम्भवः ? नैवेत्यर्थः ॥२०१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org