________________
१२४
योगदृष्टिसमुच्ययः सूत्र - १९५-१९६-१९७ चेद्भवति, कथं स इति । एतच्च स एव न भवतीत्यत्रापि समानमेव । तथा हि यदि स एव, कथं न भवति ? अभवन्वा कथं स एव ? इति विरुद्धमेतत् । अभ्युच्चयमाह 'तदुत्पत्त्यादितः' इत्यभावोत्पत्त्यादेः, तथाविरुद्धमिति ॥१९४॥ एतद्भावनायैवाह
सतोऽसत्त्वे तंदुत्पादस्ततो नाशोऽपि तस्य यत् ।।
तत्रष्टस्य पुनर्भावः सदा नाशे न तत्स्थितिः ॥१९५॥ सतो-भावस्य असत्त्वेऽभ्युपगम्यमाने "स एव न भवति" इति वचनात् किमित्याह तदुत्पादः-इत्यसत्त्वोत्पादः कादाचित्कत्वेन, ततः-उत्पादात् नाशोऽपि तस्यासत्त्वस्य, 'यदुत्पत्तिमत्तदनित्यं' इति कृत्वा यद्यस्मात् तत्तस्मात्, नष्टस्याऽसत्त्वस्य (नष्टस्य सत्त्वस्य?) पुनर्भावस्तेनैव रूपेण, सदसत्त्वविनाशान्यथानुपपत्तेः । अथ नाशो नाशात्मना भावात्प्राक्पश्चाच्चावस्थित एव-एतदाशदयाह सदानाशे-अभ्युपगम्यमाने किमित्याह 'न तत्स्थितिः' विवक्षितक्षणेऽपि तनश्यति ॥१९५॥
स क्षणस्थितिधर्मा चेद् द्वितीयादिक्षणे स्थितौ ।
युज्यते ह्येतदप्यस्य तथा चोक्तानतिक्रमः ॥१९६॥ स-नाशः, क्षणस्थितिधर्मा चेद्भाव एव । एतदाशङ्कयाह द्वितीयादिक्षणे स्थितौ सत्याम् किमित्याह युज्यते ह्येतदपि-क्षणस्थितिधर्मकत्वं, अस्यअधिकृतभावस्य । तथा चैवं सति उक्तानतिक्रमः ॥१९६॥ कथमित्याह
क्षणस्थितौ तदैवाऽस्य नाऽस्थितिर्युक्त्यसङ्गतेः ।
न पश्चादपि सेत्येवं सतोऽसत्त्वं व्यवस्थितम् ॥१९७॥ क्षणस्थितौ सत्यां तदैव विवक्षितक्षणे अस्य-विवक्षितभावस्यैव नाऽस्थितिः । कुत इत्याह युक्त्यसङ्गतः, तदैवाऽस्थितौ तत्स्थितिविरोधादिति युक्तिः । न पश्चादपि द्वितीयक्षणे, साऽस्थितिर्न, युक्त्यसङ्गतेरेव 'तदावस्थितौ
१. तन्नाशादिति-भ.पा.ता. । २. क्षणा-भ.पा.ता. । ३. क्षण-भ.पा.ता. । ४. सा नेति -भ.पा.ता. । ५. सतोऽ.... स क्षण... क्षण... इति श्लोकत्रयं शास्त्रवर्तासमुच्चये ४/ १२, १३, १४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org