SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ योगदृष्टिसमुच्ययः सूत्र - १९१-१९२-१९३-१९४ १२३ तत्स्वभावोपमर्देऽपि तत्तत्स्वाभाव्ययोगतः । तस्यैव हि तथाभावात्तददोषत्वसङ्गतिः ॥१९१॥ तस्यात्मनः स्वभावोपमर्देऽपि सति जन्मादिभावविगमेन तत्तत्स्वाभाव्ययोगतः-तस्य तत्स्वाभाव्यं तेन योगात्, तथाहि-तस्येत्थम्भूत एव स्वभावो येन स एव तथा भवतीति, ततश्च तस्यैव हि तथाभावाजन्मादित्यागतो जन्माद्यतीतत्वेन भावात् किमित्याह तददोषत्वसङ्गतिः-दोषवत एवाऽदोषत्वप्राप्तिरित्यर्थः ॥१९१ ॥ इत्थं चैतदङ्गी कर्तव्यमित्याह स्वभावोऽस्य स्व-भावो यन्निजा सत्तैव तत्त्वतः । भावावधिरयं युक्तो नान्यथाऽतिप्रसङ्गतः ॥१९२॥ स्वभावोऽस्यात्मनः स्व-भावो यद्यस्मात्, किमुक्तं भवति-निजा सत्तैव 'तत्त्वत:'-परमार्थेन भावावधिरयं युक्तः-स्वभावोऽनन्तरोदितः 'नान्यथा' युक्तः । कुत इत्याह अतिप्रसङ्गतः इति ॥१९२॥ एनमेवाह अनन्तरक्षणाभूतिरात्मभूतेह यस्य तु । तयाऽविरोधानित्योऽसौ' स्यादसत्त्वात् सदैव हि ॥१९३॥ अनन्तरक्षणाऽभूति:-प्राक्पश्चात्क्षणयोरभूतिरित्यर्थः, आत्मभूतेह यस्य तु-वर्तमानस्य वादिनो वा, तस्य दोषमाह-तथा अनन्तरक्षणाभूत्या अविरोधात् कारणाद्वर्तमानभावेन किमित्याह नित्योऽसौ वर्तमानः स्यात्, तद्वत्सदा तद्भावादिति । पक्षान्तरमाह- असत्त्वात् सदैव हि तया विरोधेन तद्ग्रस्तत्वादिति ॥१९३॥ परोक्तिमात्रपरिहारायाह स एव न भवत्येतदन्यथा भवतीतिवत् । - विरुद्धं तत्रयादेव तदुत्पत्त्यादितस्तथा ॥१९४॥ स एव-इति भावपरामर्शः, न भवतीति चाभावाभिधानं एतत्, किमित्याह 'अन्यथाभवतीतिवत्' इति निदर्शनम्, विरुद्ध-व्याहतम्, तत्रयादेव, स हि स एवान्यथाभवतीत्युक्ते एवमाह-यदि स एव, कथमन्यथा भवति, अन्यथा १. कर्तव्यमेवेत्याह -भ. । २. स्यादसत्ता सदैव हि - पा. । ३. भूतिः भाविक्षणाभूति - रित्यर्थः - पा.ता. । ४. असन्वा सदैव इति मुद्रितप्रतौ । असत्ता सदैव- पा. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004175
Book TitleHaribhadra Yogbharti
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2009
Total Pages346
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy