________________
- १२२ योगदृष्टिसमुच्ययः सूत्र - १८६-१८७-१८८-१८९-१९० . गादित्यर्थः किमित्याह 'भवव्याधिक्षयं कृत्वा' सर्वप्रकारेण निर्वाणं लभते परं-भावनिर्वाणमित्यर्थः ॥१८६॥ तत्रायं कीदृश इत्याह
व्याधिमुक्तः पुमान् लोके यादृशस्तादृशो ह्ययम् ।
नाभावो न च नो मुक्तो व्याधिनाऽव्याधितो न च ॥१८७॥ 'व्याधिमुक्तो-व्याधिपरिक्षीणः पुमान् यादृशो भवति तादृशो ह्ययं निर्वृतो, नाऽभावः-प्रध्यातदीपकल्पोपमो, 'न च नो मुक्तो व्याधिना' मुक्त एव भव्यत्वपरिक्षयेण, 'अव्याधितो न च'-पूर्वं तथा तद्भावादिति ॥१८७॥
अमुमेवार्थं स्पष्टयन्नाह. भव एव महाव्याधिर्जन्ममृत्युविकारवान् । ..
विचित्रमोहजननस्तीवरागादिवेदनः ॥१८८॥ भवः-संसार एव महाव्याधिः । किंविशिष्ट इत्याह-जन्ममृत्युविकारवान् जराद्युपलक्षणमेतत् । विचित्रमोहजननो मिथ्यात्वोदयभावेन, तीव्ररागादिवेदन: स्त्याद्यभिष्वङ्गभावेन ॥१८८॥
मुख्योऽयमात्मनोऽनादिचित्रकर्मनिदानजः ।
तथानुभवसिद्धत्वात्सर्वप्राणभृतामिति ॥१८९॥ मुख्यो-निरुपचरितो अयं-भवव्याधिः, आत्मनो-जीवस्य किम्भूत इत्याह अनादिचित्रकर्मनिदानजः-द्रव्यभावभेदभिन्नकर्मबलोत्पन्न इत्यर्थः ।कुत इत्याह तथानुभवसिद्धत्वात्-जन्माद्यनुभावेन सर्वप्राणभृतामिति-तिर्यक्प्रभृतीनामपि ॥१८९॥
एतन्मुक्तश्च मुक्तोऽपि मुख्य एवोपपद्यते ।
जन्मादिदोषविगमात्तददोषत्वसङ्गतेः ॥१९०॥ एतेन भवव्याधिना मुक्तश्च, मुक्तोऽपि-सिद्धः 'मुख्य एवोपपद्यते' प्रवृत्तिनिमित्तभावात् । तथा चाह-जन्मादिदोषविगमात् कारणात् तददोषत्वसङ्गतेस्तस्य दोषवतोऽदोषत्वप्राप्तेरिति ॥१९०॥ अमुमेवार्थं स्पष्टयन्नाह
१. व्याधिमुक्तः परिक्षीण रोगः - ता. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org