SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ योगदृष्टिसमुच्ययः सूत्र - १८३-१८४-१८५-१८६ १२१ उपचरितस्तु प्रमत्तसंयतादारभ्य, केवलश्रीस्ततश्च-धर्मसन्न्यासविनियोगात् अस्य योगिनो निःसपत्ना केवल श्रीः, सदोदया प्रतिपाताभावेन ॥१८२॥ सिंहावलोकितनीत्याधिकृतवस्तुनिर्धारणायाह स्थितः शीतांशुवजीवः प्रकृत्या भावशुद्धया । - चन्द्रिकावच्च विज्ञानं तदावरणमभवत् ॥१८३॥ स्थितो-न स्थापनीयः, शीतांशुवच्चन्द्रवत्, जीव:-आत्मा, प्रकृत्याऽऽत्मीयया, भावशुद्धया-तत्त्वशुद्धयेत्यर्थः तथा चन्द्रिकावच्च - ज्योत्स्नावच्च, विज्ञानं केवलादि, उपमामात्रमेतत्, तदावरणं - ज्ञानावरणं, अभ्रवत् - मेघपटलवदित्यर्थः ॥१८३॥ प्रकृतयोजनमाह- . घातिकर्माभ्रकल्पं तदुक्तयोगाऽनिलाऽऽहतेः । यदाऽपैति तदा श्रीमान् जायते ज्ञानकेवली ॥१८४॥ घातिकर्म-ज्ञानावरणीयादि तथा ज्ञानावरणीयं, दर्शनावरणीयं, मोहनीयं, अन्तरायं चेति। एतदभ्रकल्पं वर्तते । तद् घातिकर्म उक्तयोगानिलाहते:अनन्तरोदितयोगवायुधातादित्यर्थः यदापैति-श्रेणिपरिसमाप्तौ तदा श्रीमानसौ मुख्यविक्रमयोगेन जायते ज्ञानकेवली-सर्वज्ञ इत्यर्थः ॥१८४ ॥ अत एवाह.क्षीणदोषोऽथ सर्वज्ञः सर्वलब्धिफलान्वितः । परं परार्थं सम्पाद्य ततो योगान्तमश्नुते ॥१८५॥ .. क्षीणदोष:-सकलरागादिपरिक्षयेण अर्थात् तदैव सर्वज्ञो-निरावरणज्ञानभावेन सर्वज्ञ इत्यर्थः । सर्वलब्धिफलान्वितः-सर्वोत्सुक्यनिवृत्त्या परं परार्थं सम्पाद्य- . यथाभव्यं सम्यक्त्वादिलक्षणं ततो योगान्तमश्नुते-योगपर्यन्तमाप्नोति ॥१८५ ॥ तत्र द्रागेव भगवानयोगाद्योगसत्तमात् ।। भवव्याधिक्षयं कृत्वा निर्वाणं लभते परम् ॥१८६॥ तत्र-योगान्ते शैलेश्यवस्थायां, द्रागेव-शीघ्रमेव, हृस्वपञ्चाक्षरोद्गिरणमात्रेण कालेन, भगवानसौ अयोगाद्-अव्यापारात्, योगसत्तमाद्-योगप्रधानात् शैलेशीयो १. तद्यथा -ता. . Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004175
Book TitleHaribhadra Yogbharti
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2009
Total Pages346
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy