________________
१२० योगदृष्टिसमुच्ययः सूत्र - १७८-१७९-१८०-१८१-१८२ फलमित्यन्ये। यथोक्तं “देशबन्धश्चित्तस्य धारणा" (३-१ पा.) "तत्रप्रत्ययैकतानता ध्यानं"(३-२ पा.) “तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः" (३-३ पा.)इति ॥ तदासङ्गविवर्जिता-समाध्यासङ्गविवर्जिता भूतप्रवृत्तिश्चैषा चन्दनगन्धन्यायेन ,। तदुत्तीर्णाशयेति 'चाऽसच्चित्ताऽभावेन ॥१७८॥
निराचारपदो ह्यस्यामतिचारविवर्जितः ।
आरूढारोहणाभावगतिवत्त्वस्य चेष्टितम् ॥१७९॥ निराचारपदो हि-एव अस्यां दृष्टौ योगी भवति, प्रतिक्रमणाद्यभावात्, अतिचारविवर्जितस्तन्निबन्धनाभावेन ।आरूढारोहणाभावगतिवत्त्वस्य-योगिनश्चेष्टितं भवति, आचारजेयकर्माभावात् निराचारपद इत्यर्थः ॥१७९॥ कथं भिक्षाटनाद्याचारोऽस्येत्याशङ्कापनोदायाह
रत्लादिशिक्षादृग्भ्योऽन्या यथा दृक्तन्नियोजने ।
तथाचारक्रियाप्यस्य सैवान्या,फलभेदतः ॥१८०॥ रत्नादिशिक्षादृग्भ्यः सकाशात् अन्या-भित्रैव यथा दृक्तनियोजने शिक्षितस्य सतः । तथाऽऽचारक्रियाप्यस्य-योगिनः, सैव-भिक्षाटनादिलक्षणा अन्या भवति । कुत इत्याह फलभेदतः, प्राक् साम्परायिककर्मक्षयः फलं, इदानीं तु भवोपग्राहिकर्मक्षय इति ॥१८॥
तन्नियोगान्महात्मेह कृतकृत्यो यथा भवेत् ।
तथाऽयं धर्मसन्यासविनियोगान्महामुनिः ॥१८१॥ तन्नियोगाद्-रत्ननियोगात् महात्मेह-लोके कृतकृत्यो यथा भवेत् कश्चिद्रत्नवणिक् तथाऽयमधिकृतयोगो, धर्मसन्यासविनियोगात्सकाशात् महामुनिः कृतकृत्यो भवतीति ॥१८१॥ तत्र
द्वितीयाऽपूर्वकरणेमुख्योऽयमुपजायते ।।
केवलश्रीस्ततश्चास्य निःसपला सदोदया ॥१८२॥ द्वितीयाऽपूर्वकरणे-श्रेणिवर्तिनि, मुख्योऽयं-धर्मसन्न्यासः उपजायते, १. वाऽसच्चित्ता इति मुद्रितप्रतौ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org