________________
योगदृष्टिसमुच्ययः सूत्र - १७३-१७४-१७५-१७६-१७७-१७८ ११९
पुण्यापेक्षमपि ह्येवमुक्तनीत्या सुखं परवशं स्थितं-पुण्यस्य परत्वात् । ततश्च दु:खमेवैत्, तत्तल्लक्षणनियोगात् । तदित्थं ध्यान तात्त्विकं सुखम्, अपरायत्तत्वात्कर्मवियोगमात्रजत्वादिति ॥१७३॥
ध्यानं च निर्मले बोधे सदैव हि महात्मनाम् ।
क्षीणप्रायमलं हेम सदा कल्याणमेव हि ॥१७४॥ ध्यानं च निर्मले बोधे-स्पष्टक्षयोपशमसमुत्थे सति किमित्याह सदैव हि महात्मनां-मुनीनाम्, एतदेव प्रतिवस्तूपमयाह 'क्षीणप्रायमलं हेम-स्वर्णं 'सदा कल्याणमेव हि' तथावस्थोपपत्तेः ॥१७४ ॥
सत्प्रवृत्तिपदं चेहाऽसङ्गानुष्ठानसंज्ञितम्।
महापथप्रयाणं यदनागामिपदावहम् ॥१७५॥ सत्प्रवृत्तिपदं चेह-सत्त्वमार्गे किमित्याह 'असङ्गानुष्ठानसंज्ञितं' वर्तते तथास्वरसप्रवृत्तेः । महापथप्रयाणं यदसङ्गानुष्ठानम्, अनागामिपदावहं - नित्यपदप्रापकमित्यर्थः ॥१७५ ॥ असङ्गानुष्ठाननामान्याह
प्रशान्तवाहितासंज्ञं विसभागपरिक्षयः ।
शिववर्त्म ध्रुवाध्वेति योगिभिर्गीयते ह्यदः ॥१७६ ॥ ‘प्रशान्तवाहितासंज्ञं-सांख्यानां, विसभागपरिक्षयो-बौद्धानां, शिववर्मशैवानां, ध्रुवाध्वा-महाव्रतिकानां, इत्येवं योगिभिर्गीयते ह्यदोऽसङ्गाऽनुष्ठानमिति ॥१७६॥
एतत्प्रसाधयत्याशु यद्योग्यस्यां व्यवस्थितः ।
एतत्पदावहैषैव तत्तत्रैतद्विदां मता ॥१७७॥ एतदसङ्गानुष्ठानं, प्रसांधयत्याशु-शीघ्रं, यद्योगी अस्यां-दृष्टौ व्यवस्थितः सन्, एतत्पदावहैयैव दृष्टिः तत्तत्रैतद्विदां मतेष्टेति ॥१७७॥ उक्ता सप्तमी दृष्टिः । अधुनानन्तरोच्यते । तदाह
समाधिनिष्ठा तु परा तदासङ्गविवर्जिता ।
सात्मीकृतप्रवत्तिश्च तदुत्तीर्णाशयेति च ॥१७॥ समाधिनिष्ठा तु पराऽष्टमी दृष्टिः "समाधिस्तु ध्यानविशेषः, " (तत्)
१०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org