SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ ११८ योगदृष्टिसमुच्ययः सूत्र - १६८-१६९-१५०-१७१-१७२-१७३ . स-मायायामुदकदृढावेशः, तत्रैव-पथि, भयोद्विग्नः सन् यथा-इत्युदाहरणोपन्यासार्थः, तिष्ठत्यसंशयं-तिष्ठत्येव जलबुद्धिसमावेशात् । मोक्षमार्गेऽपि हि ज्ञानादिलक्षणे तथा तिष्ठत्यसंशयं भोगजम्बालमोहित:-भोगनिबन्धनदेहादिप्रपञ्चमोहित इत्यर्थः ॥१६८॥ मीमांसाभावतो नित्यं न मोहोऽस्यां यतो भवेत् । अतस्तत्त्वसमावेशात्सदैव हि हितोदयः ॥१६९॥ मीमांसाभावतो:-सद्विचारभावेन, नित्यं-सर्वकालं, न मोहोऽस्यां दृष्टौ, यतो भवेत् अतस्तत्त्वसमावेशात्कारणात्, सदैव हितोदयोऽस्यां दृष्टाविति ॥१६९ ॥ प्रतिपादिता षष्ठी दृष्टिः । साम्प्रतं सप्तम्युच्यते- ध्यानप्रिया प्रभा प्रायो नास्यां रुगत एव हि । तत्त्वप्रतिपत्तियुता 'विशेषेण शमान्विता ॥१७०॥ एवं सत्प्रवृत्तिपदावहेति पिण्डार्थः ॥१७॥ ध्यानजं सुखमस्यां तु जितमन्मथसाधनम् । विवेकबलनिर्जातं शमसारं सदैव हि ॥१७१॥ ध्यानजं सुखमस्यां-त्वधिकृतदृष्टावेव किंविशिष्टमित्याह-जितमन्मथसाधनं -व्युदस्तशब्दादिविषयम्, एतदेव विशेष्यते विवेकबलनिर्जातं ज्ञानसामोत्पन्नम् । अत एव शमसारं सदैव हि, विवेकस्य शमफलत्वादिति ॥१७१॥ किञ्च सर्वं परवशं दुःखं सर्वमात्मवशं सुखम् । एतदुक्तं समासेन लक्षणं सुखदुःखयोः ॥१७२॥ सर्वं परवशं दुःखं-तल्लक्षणयोगात, सर्वमात्मवशं सुखमत एव हेतोः । एतदुक्तं मुनिना समासेन-संक्षेपेण, लक्षणं-स्वरूपं, सुखदुःखयोरिति ॥१७॥ पुण्यापेक्षमषि ह्येवं सुखं परवशं स्थितम् । ततश्च दुःखमेवैतत्तल्लक्षणनियोगतः ॥१७३॥ १. सत्प्रवृत्तिपदावहा-भ.पा.ता. ।२. अवयवार्थ त्वाह-ध्यानप्रिया ध्यानवल्लभा विक्षेपोद्वेगात् प्रभाष्टिः प्राय:-बाहुल्येन न अस्यां दृष्टौ रुग्-वेदना अत एव हि तथा तत्वप्रतिपत्तियुता विशेषेण, एवं सत्प्रवृत्तिपदावहेति पिण्डार्थः ॥१७०॥ ता. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004175
Book TitleHaribhadra Yogbharti
Original Sutra AuthorN/A
AuthorAbhayshekharsuri
PublisherDivya Darshan Trust
Publication Year2009
Total Pages346
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy