________________
योगदृष्टिसमुच्ययः सूत्र - १६३-१६४-१६५-१६६-१६७-१६८ ११७
अस्यामेव-दृष्टौ कन्तायां नियोगेन, धर्ममाहात्म्यात्कारणात्, समाचारविशुद्धितो हेतोः किमित्याह प्रियो भवति भूतानां-प्राणिनां, धर्मैकाग्रमनास्तथा भवतीति ॥१६३॥ एतदेवाह
श्रुतधर्मे मनो नित्यं कायस्त्वस्यान्यचेष्टिते । - अतस्त्वाक्षेपकज्ञानान्न भोगा भवहेतवः ॥१६४॥
श्रुतधर्मे-आगमे, मनो नित्यं तद्भावनोपपत्तेः, कायस्तु-काय एव अस्याधिकृतदृष्टिमतो अन्यचेष्टिते-सामान्ये, अतस्त्वत एव कारणात् आक्षेपकज्ञानात् सम्यगाक्षेपकज्ञानेन हेतुभूतेन, भोगा:-इन्द्रियार्थसम्बन्धाः भवहेतवःसंसारहेतवो न इति ॥१६४॥ अमुमेवा) दृष्टान्तमधिकृत्याह
मायाम्भस्तत्त्वतः पश्यत्रनुद्विग्नस्ततो द्रुतम् ।
तन्मध्येन प्रयात्येव यथा व्याघातवर्जितः ॥१६५॥ मायाम्भस्तत्त्वतः पश्यन्-मयाम्भस्त्वेनैव, अनुद्विग्नस्ततो-मायाम्भस: द्रुतंशीघ्रं, तन्मध्येन-मायाम्भोमध्येन प्रयात्येव-न न प्रयाति, यथा इत्युदाहरणोपन्यासार्थ: व्याघातवर्जितोमायाम्भसस्तत्त्वेन व्याघाताऽसमर्थत्वादिति ॥१६५ ॥
भोगान्स्वरूपतः पश्यंस्तथा मायोदकोपमान् ।
भुञ्जानोऽपि ह्यसङ्गः सन् प्रयात्येव परं पदम् ॥१६६॥ . भोगानिन्द्रियार्थसम्बन्धान, स्वरूपतः पश्यन्समारोपमन्तरेण, तथा तेनैव प्रकारेण मायोदकोपमानसारान्, भुञ्जानोऽपि हि कर्माक्षिप्तान्, असङ्गः सन् प्रयात्येव परं पदं, तथाऽनभिष्वङ्गतया परवशताभावात् ॥१६६ ॥
भोगतत्त्वस्य तु पुनर्न भवोदधिलयनम् ।
मायोदकदृढावेशस्तेन यातीह कः पथा ॥१६७॥ भोगतत्त्वस्य तु-भोगपरमार्थस्य पुनः, न भवोदधिलङ्घनं-तथाबुद्धेस्तदुपायेऽप्रवृत्तेः । आह च, मायोदकदृढावेशः तथाविपर्यासात्, तेन यातीह कः पथा-यत्र मायायामुदकबुद्धिः ॥१६७॥ .. स तत्रैव भयोद्विग्नो यथा तिष्ठत्यसंशयम् ॥
मोक्षमार्गेऽपि हि तथा भोगजम्बालमोहितः ॥१६८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org